________________
३६२
तंजहा - पढमाते, पच्छिमाते, मज्झण्हे, अड्डर |
कप्पति निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए, तंजहापुव्वण्ह, अवरण्हे, पओसे, पच्चूसे २ |
[टी०] निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे नो कप्पड़ इत्यादिके कण्ठ्ये, केवलं 5 महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्विलक्षणतया महाप्रतिपदस्तासु, इह च देशविशेषरूढ्या पाडिवएहिं ति निर्देश:, स्वाध्यायो नन्द्यादिसूत्रविषयो वाचनादि:, अनुप्रेक्षा तु न निषिध्यते, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहः अश्वयुक्पौर्णमासी, सुंग्रीष्मः चैत्रपौर्णमासीति, इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्त्तन्ते तत्र तद्दिवसात् स्वाध्यायो न विधीयते महसमाप्तिदिनं 10 यावत् तच्च पौर्णमास्येव, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वर्ज्यन्त इति, उक्तं चआसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वे |
एए महामहा खलु सव्वेसिं जाव पाडिवया ॥ [ आव० नि० १३५२ ] इति । अकालस्वाध्याये चामी दोषा:
15
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
सुयणाणम्मि अभत्ती लोगविरुद्धं पमत्तछलणा य ।
विज्जासाहणवेगुन्नधम्मया एव मा कुणसु ॥ [ आव० नि० १४२२] इति, विद्यासाधनवैगुण्यसाधर्म्येणैवेत्यर्थः । प्रथमा सन्ध्या अनुदिते सूर्ये, पश्चिमा अस्तमयसमये । उक्तविपर्ययसूत्रं कण्ठ्यम्, किन्तु पुव्वण्हे अवरण्हे त्ति दिनस्याऽऽद्यचरमप्रहरयोः, पओसे पच्चूसे तिरात्रेरिति ।
[सू० २८६] चउव्विहा लोगट्ठिती पन्नत्ता, तंजहा - आगासपतिट्ठिए वाते, 20 वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपइट्ठिया तसा थावरा पाणा । [ टी० ] स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह— चउव्विहेत्यादि, लोकस्य क्षेत्रलक्षणस्य स्थितिः व्यवस्था लोकस्थिति:, आकाशप्रतिष्ठितो वातो घनवात-तनुवातलक्षणः, उदधि: घनोदधिः, पृथिवी रत्नप्रभादिका, त्रसा द्वीन्द्रियादयस्ते पुनर्ये रत्नप्रभादिपृथिवीष्वप्रतिष्ठितास्तेऽपि विमान25 पर्वतादिपृथिवीप्रतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमान - पृथिवीनां १. सुग्रैष्मः जे१ ॥ २. 'साधनावैगु खं० ॥ ३. पृथ्वी जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org