________________
३६१
10
[सू० २८५]
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।। [टी०] ज्ञानदर्शनयोरुत्पाद: उक्तोऽधुना तद्व्याघात उच्यते, तत्र- चउहीत्यादि सूत्रं स्फुटम्, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याहेति । अस्मिन्निति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासन्ने समये अइसेसे त्ति शेषाणि मत्यादि- चक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत् केवलमित्यर्थः, समुत्पत्तुकाममपीति इहेवार्थो द्रष्टव्य:, ज्ञानादेरभिलाषाभावात् । कथयितेति 5 शीलार्थिकस्तृन्, तेन द्वितीया न विरुद्धेति। विवेकेनेति अशुद्धादित्यागेन विउसग्गेणं ति कायव्युत्सर्गेण । पूर्वरात्रश्च रात्रे: पूर्वो भागो अपररात्रश्च रात्रेरपरो भाग: तावेव काल: स एव समय: अवसरो जागरिकाया: पूर्वरात्रापररात्रकालसमयस्तस्मिन्, कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका निद्राक्षयेण बोधो धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थः, यथा
किं कय किं वा सेसं किं करणिजं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥ [ओघनि० २६२] इति ।
अथवा को मम कालो ? किमेयस्स उचियं ? असारा विसया नियमगामिणो विरसावसाणा भीसणो मच्चू। [ ] इत्यादिरूपा, विभक्तिपरिणामात् तया जागरिता जागरको भवति, अथवा धर्मजागरिकां जागरिता कर्तेति द्रष्टव्यमिति । तथा प्रगता असव: उच्छ्वासादय: 15 प्राणा यस्मात् स प्रासुको निर्जीवस्तस्य, एष्यते गवेष्यते उद्गमादिदोषरहिततयेत्येषणीय: कल्प्यस्तस्य, उञ्छ्यते अल्पाल्पतया गृह्यत इत्युञ्छो भक्त-पानादिस्तस्य, समुदाने भिक्षणे याच्ञायां भव: सामुदानिकः तस्य, नो सम्यग् गवेषयिता अन्वेष्टा भवति, इत्येवंप्रकारैः एतैरनन्तरोदितैरित्यादि निगमनम्, एतद्विपर्ययसूत्रं कण्ठ्यम् ।
[सू० २८५] नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहि महापाडिवतेहिं 20 सज्झायं करेत्तए, तंजहा-आसाढपाडिवते, इंदमहपाडिवते, कत्तियपाडिवते, सुगिम्हपाडिवते १॥
णो कप्पति निग्गंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, १. इत्याह अस्मिन्निति पामू० जे२ ॥ २. 'समुत्पत्तुकाममिव' इति भावः। ३. “आक्वेस्तच्छील-तद्धर्म
तत्साधुकारिषु ।३।२।१३४। तृन् ।३।२।१३५। न लोकाव्ययनिष्ठाखलर्थतनाम् ।२।३।६९।"- पा० ॥ ४. एतरित्यादि निग' जे१ खं० ॥
-A-8
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org