________________
३६०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुरिसेत्यादि कण्ठ्यम्, नवरं कृशः तनुशरीरः पूर्वं पश्चादपि कृश एव, अथवा कृशो भावेन हीनसत्त्वादित्वात् पुन: कृश: शरीरादिभिः, एवं ढूंढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्रम्, तत्र कृशो भावत:, शेषं सुगमम् ।
कृशस्यैव चतुर्भङ्ग्या ज्ञानोत्पादमाह- चत्तारीत्यादि व्यक्तम्, किन्तु कृशशरीरस्य 5 विचित्रतपसा भावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानञ्च दर्शनञ्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाद्यस्थिकं कैवलिकं वा तत् समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मन:स्वास्थ्येन शुभपरिणामभावत: 10 क्षयोपशमादिभावात् न कृशशरीरस्याऽस्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य
वा तदुत्पद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापि शुभपरिणामभावात् कृशत्व-दृढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञान: ।
[सू० २८४] चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामे वि न समुप्पज्जेजा, तंजहा-अभिक्खणं 15 अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कत्ता भवति १, विवेगेणं विउसग्गेणं णो सम्ममप्पाणं भाविता भवति २, पुव्वरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतित्ता भवति ३, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति ४, इच्चेतेहिं चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव नो समुप्पज्जेजा । 20 चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे
समुप्पजिउकामे समुप्पजेजा, तंजहा-इत्थीकहं भत्तकहं देसकहं रायकहं णो कहेत्ता भवति, विवेगेणं विउसग्गेणं सम्ममप्पाणं भावेत्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरितं जागरतित्ता भवति, फासुयस्स
एसणिजस्स उंछस्स सामुदाणियस्स सम्मं गवेसित्ता भवति, इच्चेतेहिं चउहिं 25 ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा जाव समुप्पजेजा ।
१. दृढो विपर्यया जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org