SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ३५८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कोशो भाण्डागारम्, कोष्ठागारं धान्यागारमिति, तत्कथा यथापुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं । णिजियवेसमणेणं तेण समो को निवो अन्नो? ॥ [ ] त्ति । इह चैते दोषा:चारिय चोरा १ भिमरे २ हिय १ मारिय २ संक काउकामा वा । भुत्ताभुत्तोहाणे करेज वा आससपओगं ॥ [निशीथभा० १३०] भुक्तभोगोऽभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः । आक्षिप्यते मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी, संवेगयति संवेगं करोतीति 10 संवेगनी संवेद्यते वा संबोध्यते संवेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति, निर्विद्यते संसारादेनिविण्ण: क्रियते अनयेति निर्वेदनीति । आचारो लोचा-ऽस्नानादिः, तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षण:, प्रज्ञप्ति: संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनम्, दृष्टिवादः श्रोत्रपेक्षया नयानुसारेण सूक्ष्मजीवादिभावकथनम्, 15 अन्ये त्वभिदधति आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, अस्याश्चायं रस: विजाचरणं च तवो पुरिसक्कारो य समिइगुत्तीओ । उवइस्सइ खलु जं सो कहाए अक्खेवणीय रसो ॥ [दशवै० नि० १९५] इति । स्वसमयं स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वम्, ततस्तं कथयित्वा परसमयं 20 कथयति, तद्दोषान् दर्शयतीत्येका । एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता स्वसमयगुणानां स्थापको भवतीति द्वितीया । सम्मावायमित्यादि, अस्यायमर्थ:परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग् अविपरीततत्त्वानां वाद: सम्यग्वाद: तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वविरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनत: कथयतीति तृतीया । परसमयेष्वेव मिथ्यावादं 25 कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी । अथवा सम्यग्वाद: अस्तित्वम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy