________________
३५७
[सू० २८२] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
आय-परमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी । बंभवयस्स अगुत्ती पसंगदोसा य गमणादी ॥ [निशीथभा० १२१]
उन्निष्क्रमणादय इत्यर्थः । तथा शाक-घृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्कान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं 5 तत्रोपयुज्यत इति निष्ठानकथेति, उक्तं चसागघयादावावो पक्कापक्को य होइ निव्वावो । आरंभ तित्तिराई णिट्ठाणं जा सयसहस्सं ॥ [निशीथभा० १२३] इति । इह चामी दोषा:आहारमंतरेण वि गेहीओ जायए सइंगालं । अजिइंदिय ओदरियावाओ उ अणुन्नदोसा य ॥ [निशीथभा० १२४] इति ।
तथा देशे मगधादौ विधि: विरचना भोजन-मणि-भूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिः, तत्कथा देशविधिकथा, एवमन्यत्रापि । नवरं विकल्प: सस्यनिष्पत्ति: वप्र-कूपादि-देवकुल-भवनादिविशेषश्चेति, छन्दो गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं स्त्री-पुरुषाणां वेष: स्वाभाविको 15 विभूषाप्रत्ययश्चेति । इह दोषा:
रागद्दोसुप्पत्ती सपक्ख-परपक्खओ य अहिगरणं । बहुगुण इमो त्ति देसो सोउं गमणं च अन्नेसिं ॥ [निशीथभा० १२७] ति । तथा अतियानं नगरादौ प्रवेशः, तत्कथा अतियानकथा, यथासियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया ॥ [ ] इति । एवं सर्वत्र, नवरं निर्याणं निर्गमः, तत्कथा यथावज्जंतायोज्जममंदबंदिसई मिलंतसामंतं ।। संखुद्धसेन्नमुद्धयचिंधं नयरा निवो नीइ ॥ [ ] बलं हस्त्यादि, वाहनं वेगसरादि, तत्कथा यथाहेसंतहयं गजंतमयगलं घणघणंतरहलक्खं । कस्सऽन्नस्स वि सेन्नं णिन्नासियसत्तुसिन्नं भो ! ॥ [ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org