SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ३५६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दुहफलविवागसंजुत्ता भवंति २, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति ३, परलोगे दुच्चिन्ना कम्मा परलोगे दहफलविवागसंजुत्ता भवंति ४ । इहलोगे सुचिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति १, इहलोगे सुचिन्ना कम्मा परलोगे 5 सुहफलविवागसंजुत्ता भवंति २, एवं चउभंगो तहेव । [टी०] अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मन:स्वरूपमुक्तम्, अथ वाच: स्वरूपभणनाय विकथाकथाप्रकरणमाह, सुगमम्, नवरं विरुद्धा संयमबाधकत्वेन कथा वचनपद्धतिर्विकथा, तत: स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य भोजनस्य, देशस्य 10 जनपदस्य, राज्ञो नृपस्येति । ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा, यथाधिग्ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्री: पतिलक्षेऽप्यनिन्दिता: ॥ [ ] इति । एवम् उग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथाअहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । पत्युप॑त्यौ विशन्त्यग्नौ याः प्रेमरहिता अपि ॥ [ ] इति । तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत् प्रशंसादि सा रूपकथा, यथाचन्द्रवक्त्रा सरोजाक्षी सद्गी पीनघनस्तनी । किं लाटी नो मता साऽस्य देवानामपि दुर्लभा? ॥ [ ] इति । 20 तासामेव अन्यतमाया: कच्छाबन्धादिनेपथ्यस्य यत् प्रशंसादि सा नेपथ्यकथेति, यथाधिनारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ [ ] इति । स्त्रीकथायां चैते दोषा:१. अम्रीप्र पा० ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy