________________
३४९
[अथ द्वितीय उद्देशक:] [सू० २७८] चत्तारि पडिसंलीणा पन्नत्ता, तंजहा-कोधपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसंलीणे । चत्तारि अपडिसंलीणा पन्नत्ता, तंजहा-कोधअपडिसंलीणे जाव लोभअपडिसंलीणे ।
चत्तारि पडिसंलीणा पन्नत्ता, तंजहा-मणपडिसंलीणे वतिपडिसंलीणे 5 कायपडिसंलीणे इंदियपडिसंलीणे । चत्तारि अपडिसंलीणा पन्नत्ता, तंजहामणअपडिसंलीणे जाव इदियअपडिसंलीणे ४ ।
[टी०] व्याख्यातश्चतु:स्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्ध:-अनन्तरोद्देशके जीवादिद्रव्य-पर्यायाणां चतु:स्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम्- चत्तारि 10 पडिसंलीणेत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्ध:- अनन्तरसूत्रे प्रज्ञप्तय उक्ता:, ताश्च प्रतिसंलीनैरेव बुध्यन्त इति प्रतिसंलीनाः सेतरा: अनेनाभिधीयन्त इत्येवंसम्बन्धमिदं सुगमम्, नवरं क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना निरोधवन्त: प्रतिसंलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीन: क्रोधप्रतिसंलीन:, उक्तं चउदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं एत्थ कसायाणं कसायसंलीणया एसा ॥
कुशलमनउदीरणेनाऽकुशलमनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रतिसंलीनो मनःप्रतिसंलीन:, एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञा-ऽमनोज्ञेषु राग-द्वेषपरिहारी इन्द्रियप्रतिसंलीन इति, अत्र गाथा
20 अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कजम्मि य विही गमणं जोगे संलीणया भणिया ॥ सद्देसु य भद्दय-पावएसु सोयविसयमुवगएसु । तुट्टेण व रुटेण व समणेण सया न होयव्वं ॥ [ ]
एवं शेषेन्द्रियेष्वपि वक्तव्या इति । एवं मन:प्रभृतिभिरसंलीनो भवति विपर्ययादिति। 25 १. संबद्धस्या जे१ पा० ॥ २. संबद्धमिदं जे१,२ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org