SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ३४८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्त: पूर्वं पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः । तथा कूटस्येव आकारो यस्या: शालाया गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्त:, स्त्रीलक्षणदार्टान्तिकार्थसाधर्म्यवशात्, तत्र गुप्ता परिवारावृता गृहान्तर्गता 5 वस्त्राच्छादिताङ्गा गूढस्वभावा वा गुप्तेन्द्रिया तु निगृहीतानौचित्यप्रवृत्तेन्द्रिया, एवं शेषभङ्गा ऊह्याः । [सू० २७६] चउव्विहा ओगाहणा पन्नत्ता, तंजहा-दव्वोगाहणा, खेत्तोगाहणा, कालोगाहणा, भावोगाहणा । [टी०] अनन्तरं गुप्तेन्द्रियत्वमुक्तम् इन्द्रियाणि चावगाहनाश्रयाणीत्यवगाहना10 निरूपणसूत्रम्, अवगाहन्ते आसते यस्याम् आश्रयन्ति वा यां जीवा: साऽवगाहना शरीरम्, द्रव्यतोऽवगाहना द्रव्यावगाहना, एवं सर्वत्र, तत्र द्रव्यतोऽनन्तद्रव्या, क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढा, कालतोऽसङ्ख्ये यसमयस्थितिका, भावतो वर्णाद्यनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशा:, तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना 15 समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहना भावावगाहना भावप्राधान्यादिति । आश्रयणमानं वाऽवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहनाऽऽश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति। [सू० २७७] चत्तारि पन्नत्तीओ अंगबाहिरियातो पन्नत्ताओ, तंजहा-चंदपन्नत्ती, सूरपन्नत्ती, जंबूदीवपन्नत्ती, दीवसागरपन्नत्ती । ॥ चउट्ठाणस्स पढमो उद्देसओ ॥ [टी०] अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतुःस्थानकसूत्रम्, तत्र प्रज्ञाप्यन्ते प्रकर्षण बोध्यन्ते अर्था यासु ता: प्रज्ञप्तय:, अङ्गानि आचारादीनि, तेभ्यो बाह्या: अङ्गबाह्याः, यथार्थाभिधानाश्चैता: कालिकश्रुतरूपाः; तत्र सूरप्रज्ञप्ति-जम्बूद्वीपप्रज्ञप्ती पञ्चम-षष्ठाङ्गयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पञ्चमी 25 केवलं साऽङ्गप्रविष्टेत्येताश्चतम्र उक्ताः ॥ ॥ इति चतुःस्थानकस्य प्रथमोद्देशकः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy