________________
३४२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० २६८] पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति, तंजहाणाणावरणिजं, दंसणावरणिजं, मोहणिजं, अंतराइतं ।
उप्पन्ननाणदंसणधरे णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति, तंजहावेदणिजं, आउयं, णामं, गोतं । 5 पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिज्जति, तंजहा-वेयणिज्जं, आउयं, णामं, गोतं ।
[टी०] अनन्तरं सिद्धसुगता उक्ता:, ते चाष्टकर्मक्षयात् भवन्त्यत: क्षयपरिणामस्य क्रममाह- पढमेत्यादि सूत्रत्रयं व्यक्तम्, परं प्रथम: समयो यस्य स तथा स चासौ जिनश्च
सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मण: सामान्यस्यांशाः ज्ञानावरणीयादयो 10 भेदा इति । उत्पन्ने आवरणक्षयाज्जाते ज्ञान-दर्शने विशेष-सामान्यबोधरूपे
धारयतीत्युत्पन्नज्ञान-दर्शनधरोऽनेनाऽनादिसिद्धकेवलज्ञानवत: सदाशिवस्यासद्भावं दर्शयति, न विद्यते रहः एकान्तो गोप्यमस्य सकलसन्निहित-व्यवहित-स्थूल-सूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा, देवादिपूजाऽर्हत्वेनार्हन् वा, रागादिजेतृत्वाजिनः,
केवलानि परिपूर्णानि ज्ञानादीनि यस्य सन्ति स केवलीति । सिद्धत्वस्य कर्मक्षपणस्य 15 च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते ।
[सू० २६९] चउहिं ठाणेहिं हासुप्पत्ती सिता, तंजहा-पासेत्ता, भासेत्ता, सुणेत्ता, संभरेत्ता ।
[टी०] असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्य तावच्चतु:स्थानकावतारित्वादाह- चउहीत्यादि, हसनं हास: हासमोहोदयजनितो 20 विकारः, तस्योत्पत्ति: उत्पादः हासोत्पत्तिः । पासित्त त्ति दृष्ट्वा विदूषकादिचेष्टां
चक्षुषा, तथा भाषित्वा वाचा किञ्चिच्चसूरिवचनम्, तथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यम्, तथा तथाविधमेव चेष्टा-वाक्यादिकं स्मृत्वा, हसतीति शेष:, एवं दर्शनादीनि हासकारणानि भवन्तीति ।
[सू० २७०] चउव्विहे अंतरे पन्नत्ते, तंजहा-कटुंतरे, पम्हंतरे, लोहंतरे, 25 पत्थरंतरे।
१. करणानि जे१,२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org