SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ३४३ [सू० २७१] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । एवामेव इथिए वा पुरिसस्स वा चउव्विहे अंतरे पन्नत्ते, तंजहा-कटुंतरसमाणे, पम्हंतरसमाणे, लोहंतरसमाणे, पत्थरंतरसमाणे । [टी०] असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्त-दार्टान्तिकार्थवत् सूत्रद्वयम्, चउव्विहे इत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं विशेषो रूपनिर्माणादिभिरिति काष्ठान्तरम्, एवं पक्ष्म कर्पासरूतादि, पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः, 5 लोहान्तरम् अत्यन्तच्छे दकत्वादिभिः, प्रस्तरान्तरं पाषाणान्तरं चिन्तितार्थप्रापणादिभिरिति, एवमेव काष्ठाद्यन्तरवत्, स्त्रिया वा स्त्र्यन्तरापेक्षया, पुरुषस्य वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयोश्चातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी, काष्ठान्तरेण समानं तुल्यमन्तरं विशेषो विशिष्टपदवीयोग्यत्वादिना, पक्ष्मान्तरसमानं वचनसुकुमारतयैव, लोहान्तरसमानं स्नेहच्छेदेन परीषहादौ निर्भङ्गत्वादिभिश्च, 10 प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगुणवद्वन्द्यपदवीयोग्यत्वादिना चेति । [सू० २७१] चत्तारि भयगा पन्नत्ता, तंजहा-दिवसभयते, जत्ताभयते, उच्चत्तभयते, कब्बालभयते । [टी०] अनन्तरमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्रम्, तत्र भ्रियते 15 पोष्यते स्मेति भृतः, स एवानुकम्पितो भृतकः, कर्मकर इत्यर्थः, प्रतिदिवसं नियतमूल्येन कर्मकरणार्थं यो गृह्यते स दिवसभृतकः १, यात्रा देशान्तरगमनं तस्यां सहाय इति भ्रियते य: स यात्राभृतकः २, मूल्य-कालनियमं कृत्वा यो नियतं यथावसरं कर्म कार्यते स उच्चताभृतक: ३, कब्बाडभृतकः क्षितिखानक: ओड्डादिः, यस्य स्वं कzिते 'द्विहस्ता त्रिहस्ता वा त्वया भूमि: खनितव्या, एतावत्ते धनं दास्यामि' इत्येवं 20 नियम्येति। इह गाथे दिवसभयओ उ घेप्पड़ छिन्नेण धणेण दिवसदेवसियं । जत्ता उ होइ गमणं उभयं वा आगमनं चेत्यर्थः एत्तियधणेणं ॥ कब्बाल ओड्डमाई हत्थमियं कम्म एत्तियधणेणं । एच्चिर कालुच्चत्ते कायव्वं कम्म जं बेंति ॥ [निशीथभा० ३७१९-२०] ___ 25 १. ओडादिः खं० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy