SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [सू० २६७ ] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वात् चतुर्यामता धर्म्मस्येति, इयं चेह भावना - मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्म्मस्य पूर्व-पश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे 5 मैथुनवर्जनमवबोद्धुं पालयितुं च न क्षमाः, मध्यम-विदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद् बोद्धुं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोकौ - पुरिमा उज्जुजड्डा उ वंकजड्डा उ पच्छिमा । मज्झिमा उज्जुपन्ना उ तेण धम्मे दुहा कए || पुरिमाणं दुव्विसोझो उ चरिमाणं दुरणुपालए । कप्पो मज्झिमगाणं तु सुविसुज्झे सुपालए || [ उत्तरा० २३।२६-२७] इति । [सू० २६७ ] चत्तारि दुग्गतीतो पन्नत्ताओ, तंजहा - णेरइयदुग्गती, तिरिक्खजोणियदुग्गती, मणुस्सदुग्गई, देवदुग्गई । चत्तारि सोग्गईओ पन्नत्ताओ, तंजहा- सिद्धसोग्गती, देवसोग्गती, मणुयसोग्गती, सुकुलपच्चायाति । चत्तारि दुग्गता पन्नत्ता, तंजहा - नेरइयदुग्गता, तिरिक्खजोणियदुग्गता, मणुस्सदुग्गता, देवदुग्गता । चत्तारि सोग्गता पन्नत्ता, तंजहा- सिद्धसोग्गता जाव सुकुलपच्चायाया । [टी०] अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गति-सुगती भवतः, तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गति सुगत्यात्मकपरिणामयोर्दुर्गत सुगतानां च भेदान् 20 सूत्रचतुष्टयेनाह— चत्तारीत्यादि गतार्थम् । नवरं मनुष्यदुर्गतिः निन्दितमनुष्यापेक्षया, देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति । सुकुलपच्चायाइ त्ति देवलोकादौ गत्वा सुकुले इक्ष्वाक्वादौ प्रत्यायातिः प्रत्यागमनं प्रत्याजातिर्वा प्रतिजन्मेति, इयं च तीर्थकरादीनामेवेति मनुष्यसुगतेर्भोगभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेषामस्तीत्यंचि प्रत्यये दुर्गता दुःस्था वा दुर्गता:, एवं सुगताः । १. तुलना - बृहत्कल्पभा० ६४०३ ॥ २. “ अर्शआदिभ्योऽच्” Jain Education International पा० ५/२/१२७ ॥ ३४१ For Private & Personal Use Only 10 15 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy