________________
३३९
[सू० २६४] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
दव्वे खेत्ते काले भावे पलिउंचणा चउवियप्प [व्यवहारभा० १५०] त्ति । तथाहिसच्चित्ते अचि(च्चि)त्तं १ जणवयपडिसेवियं च अद्धाणे २। सुब्भिक्खे दुब्भिक्खे ३ हटेण तहा गिलाणेणं ४ ॥ [व्यवहारभा० १५१] ति । तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तम्, विशेषोऽत्र व्यवहारपीठादवसेय इति। [सू० २६४] चउव्विहे काले पन्नत्ते, तंजहा-पमाणकाले, अधाउणिव्वत्ति- 5 काले, मरणकाले, अद्धाकाले ।।
[टी०] प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम्, तत्र प्रमीयते परिच्छिद्यते येन वर्षशत-पल्योपमादि तत् प्रमाणम्, तदेव काल: प्रमाणकालः, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, उक्तं च
दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥ [आव० नि० ७३०, विशेषाव०२०६९] इति,
यथा यत्प्रकारं नारकादिभेदेनाऽऽयुः कर्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृत्तिः बन्धनं तस्याः सकाशाद्य: कालो नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृत्तिकाल:, अथवा यथाऽऽयुषो निर्वृत्तिस्तथा य: कालो नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्तनादिरूप 15 इति, उक्तं च
आउयमेत्तविसिट्ठो स एव जीवाण वत्तणादिमओ । भन्नइ अहाउकालो वत्तइ जो जच्चिरं जेणं ॥ [विशेषाव० २०३७] ति ।
मरणस्य मृत्योः काल: समयो मरणकाल:, अयमप्यद्धासमयविशेष एव, मरणविशिष्टो मरणमेव वा कालो मरणपर्यायत्वादिति, उक्तं च
20 कालो त्ति मयं मरणं जहेह मरणं गओ त्ति कालगओ। तम्हा स कालकालो जो जस्स मओ मरणकालो ॥ [विशेषाव० २०६६] त्ति ।
तथा अद्धैव काल: अद्धाकाल:, कालशब्दो हि वर्ण-प्रमाणकालादिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशि(शे?)ष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वर्ती समयादिरूपोऽवसेय:, उक्तं च
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org