SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 10 ३३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथाऽपदिश्यन्ते, वियत्त त्ति विशेषेण अवस्थाद्यौचित्येन विशेषानभिहितमपि दत्तं वितीर्णमभ्यनुज्ञातमित्यर्थः, यत् किञ्चिन्मध्यस्थगीतार्थेन कृत्यम् अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चित्तमेव, चियत्तकिच्चे त्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्यादीति । प्रतिषेवणम् आसेवनमकृत्यस्येति 5 प्रतिषेवणा, सा च द्विधा परिणामभेदात् प्रतिषेवणीयभेदाद्वा, तत्र परिणामभेदात् पडिसेवणा उ भावो सो पुण कुसलो व्व होज्जऽकुसलो वा । कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो ॥ [व्यवहारभा० ३९] प्रतिषेवणीयभेदात्तुमूलगुण-उत्तरगुणे दुविहा पडिसेवणा समासेणं १ । मूलगुणे पंचविहा पिंडविसोहाइगी इयरा ॥ [व्यवहारभा० ४१] तस्यां प्रायश्चित्तमालोचनादि, तच्चेदम्आलोयण १ पडिकमणे २ मीस ३ विवेगे ४ तहा विउसग्गे ५ । तव ६ छेय ७ मूल ८ अणवट्ठया य ९ पारंचिये १० चेव ॥ [व्यवहारनि० १६ भा० ५३] त्ति प्रतिषेवणाप्रायश्चित्तम् १, संयोजनम् एकजातीयातिचारमीलनं संयोजना यथा 15 शय्यातरपिण्डो गृहीतः सोऽप्युदकाहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकर्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तम्, तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पुनः पञ्चदशरात्रिन्दिवमेवं यावत् षण्मासान् ततस्तस्याधिकं तपो देयं न भवति अपि तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् 20 तपस इति, उक्तं च पंचाईयारोवण नेयव्वा जाव होंति छम्मासा । तेण पर मासियाणं छण्होवरि झोसणं कुज्जा ॥ [व्यवहारभा० १४१] इति । आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति । तथा परिकुञ्चनम् अपराधस्य द्रव्य-क्षेत्र-काल-भावानां गोपायनमन्यथा सतामन्यथा भणने परिकुञ्चना परिवञ्चना वा, 25 उक्तं च १. किंचन मध्य जे१ ॥ २. आव० नि० १४३२ ॥ ३. छण्हुवरिं पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy