________________
[सू० २५९-२६०] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
३३५ दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्ड-हस्ता-ऽगुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वा जीव-धर्मा-ऽधर्मादीनां द्रव्ये वा परमाण्वादौ पर्यायाणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणम्, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा- प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्तम्, विभागनिष्पन्नं पञ्चधा मानादि, तत्र मानं धान्यमानं सेतिकादि, रसमानं कर्षादि १, 5 उन्मानं तुलाकर्षादि २, अवमानं हस्तादि ३, गणितमेकादि ४, प्रतिमानं गुञ्जा-वल्लादीति ५ । क्षेत्रम् आकाशम्, तस्य प्रमाणं द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्येयप्रदेशावगाढान्तम्, विभागनिष्पन्नमङ्गुलादि । काल: समयः, तन्मानं द्विधा- प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्ख्येयसमयस्थित्यन्तम्, विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्र-कालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो 10 जीवादिद्रव्यविशेषकत्वेनाऽनयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः । भाव एव भावानां वा प्रमाणं भावप्रमाणं गुण-नयसङ्ख्याभेदभिन्नम्, तत्र गुणा जीवस्य ज्ञानदर्शन-चारित्राणि, तत्र ज्ञानं प्रत्यक्षाऽनुमानोपमाना-ऽऽगमरूपं प्रमाणमिति, नया नैगमादयः, सङ्ख्या एकादिकेति ।।
[सू० २५९] चत्तारि दिसाकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा-रूया, 15 रूयंसा, सुरूवा, रूयावती । चत्तारि विज्जुकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा-चित्ता, चित्तकणगा, सतेरा, सोतामणी ।
[सू० २६०] सक्कस्स णं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती पनत्ता। ईसाणस्स णं देविंदस्स देवरणो मज्झिमपरिसाते देवीणं चत्तारि पलिओवमाई ठिती पन्नत्ता ।
20 [टी०] देवाधिकारे एवेदं सूत्रचतुष्टयम्- चत्तारि दिसा इत्यादि सुगमम्, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च प्रधानतमास्तासां वा महत्तरिका दिक्कुमारीमहत्तरिकाः, एता मध्यरुचकवास्तव्या अर्हतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति । विद्युत्कुमारीमहत्तरिकास्तु विदिग्रुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य १. जीवधर्मादीनां जे१ ॥ २. प्रमाणं गुण-नय जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org