SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३३६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति । [सू० २६१] चउव्विहे संसारे पन्नत्ते, तंजहा-दव्वसंसारे, खेत्तसंसारे, कालसंसारे, भावसंसारे । [टी०] एते च देवाः संसारिण इति संसारसूत्रम्, तत्र संसरणम् इतश्चेतश्च परिभ्रमणं 5 संसारः । तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वा जीव-पुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारः । तेषामेव क्षेत्रे चतुर्दशरज्ज्वात्मके यत् संसरणं स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि। कालस्य दिवस-पक्ष-मासर्वयन-संवत्सरादिलक्षणस्य संसरणं चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यत् कस्यापि जीवस्य नरकादिष 10 स कालसंसारः, यस्मिन् वा काले पौरुष्यादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति । तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीव-पुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति । [सू० २६२] चउव्विहे दिट्टिवाते पन्नत्ते, तंजहा-परिकम्मं, सुत्ताइं, पुव्वगए, 15 अणुजोगे। टी०] अयं च द्रव्यादिसंसारोऽनेकनयैर्दृष्टिवादे विचार्यते इति दृष्टिवादसूत्रम्चउव्विहे दिट्ठिवाए इत्यादि, तत्र दृष्टयो दर्शनानि नया उद्यन्ते अभिधीयन्ते पतन्ति वा अवतरन्ति यस्मिन्नसौ दृष्टिवादो दृष्टिपातो वा द्वादशमङ्गम्, तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थं परिकर्म गणितपरिकर्मवत्, तच्च सिद्धसेनिकादि, 20 सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्य-पर्याय-नयाद्यर्थसूचनात् सूत्राणीति, समस्तश्रुतात् पूर्वं करणात् पूर्वाणि, तानि चोत्पादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नाम-प्रमाणानि, तद्यथा उप्पाय १ अग्गेणीय २ वीरियं ३ अत्थिनत्थि उ पवायं ४ । णाणपवायं ५ सच्चं ६ आयपवायं च ७ कम्मं च ८ ॥ १. 'मास-ऋतु-अयन' इति पदच्छेदः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy