________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
१
कार्यम्, कार्यं च परिणाम्यपेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु तथादर्शनात्, तथा च मृत्पिण्डभावेऽपि दिग्- देश - काला -ऽऽकाश-प्रकाशाद्यपेक्षाकारणमन्तरेण न घटो भवति, यदि स्यात् मृत्पिण्डमात्रादेव स्यात्, न च भवति, गति - स्थिती अपि जीव-पुद्गलाख्यपरिणामिकारणभावेऽपि नापेक्षाकारणमन्तरेण भवितुमर्हतः, दृश्यते च 5 तद्भावोऽतस्तत्सत्ता गम्यते, यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः । गतिपरिणामपरिणतानां जीव - पुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यानामिव जलम्। तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भकोऽधर्म्मास्तिकायः, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा । प्रयोगश्च - गति - स्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्यशुषिरमभावो वेति । किञ्च, अलोकाभ्युपगमे सति धर्म्माऽ10 धर्म्माभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानां च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुख-दुःखबन्धादिसंव्यवहारो न स्यादिति, उक्तं च
२४
तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । seissगासे तु लोगोऽलोगो त्ति को भेओ ? ||
लोगविभागाभावे पडिघाताभावओऽणवत्थाओ ।
संववहाराभावो संबंधाभावओ होज्जा ॥ [विशेषाव० १८५२ - १८५३] इति [सू० ७] एगे बंधे । एगे मोक्खे |
[टी०] आत्मा च लोकवृत्तिर्धर्म्मा-ऽधर्म्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह - एगे बंधे, बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो 20 योग्यान् पुद्गलान् आदत्ते यत् स बन्ध इति भावः, स च प्रकृति-स्थिति-प्रदेशाऽनुभावभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्बन्धाभावाद्वा एको बन्ध इति । अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्म्मणा, तयोश्च बन्धनसामान्यादेको बन्ध इति ।
15
ननु बन्धो जीव-कर्म्मणोः संयोगोऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति 25 कल्पनाद्वयम्, तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म्म, अथ पूर्वं कर्म्म १. तथा मृत्पिंड जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org