________________
[सू० ६]
त्वसामान्यादिति
लोकव्यवस्था ह्यलोके तद्विपक्षभूते सति भवतीति तमाह - एगे अलोए, एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासात्, न त्वलोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति । ननु लोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तरमपि बाधकप्रमाणाभावात् सम्भावयामः, योऽयं पुनरलोकोऽस्य 5 देशतोऽ `ऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यवसातुं शक्यो येनैकत्वेन प्ररूप्यत इति ? उच्यते, अनुमानादिति, तच्चैको विद्यमानविपक्षो लोकः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यंद् व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीति द्रष्टव्यम्, यथा घटस्याऽघटः, व्युत्पत्तिमच्छुद्धपदवाच्यश्च लोकस्तस्मात् सविपक्ष इति, यश्च लोकस्य विपक्षः सोऽलोकस्तस्मादस्त्यलोक इति । अथ न लोकोऽलोक इति घटादीनामेवान्यतमो 10 भविष्यति, किमिह वस्त्वन्तरकल्पनयेति ?, नैवम्, यतो निषेधसद्भावान्निषेध्यस्यैवानुरूपेण भवितव्यम्, निषेध्यश्च लोकः, स चाकाशविशेषो जीवादिद्रव्यभाजनमतः खल्वलोकेनाऽप्याकाशविशेषेणैव भवितव्यम्, यथेहापण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव गम्यते, न घटादिरचेतनः, तद्वदलोकेनापि लोकानुरूपेणेति, आह च
लोगस्सऽत्थि विक्खो सुद्धत्तणओ घडस्स अघडो व्व ।
प्रथममध्ययनम् एकस्थानकम् ।
Jain Education International
२३
-
प्रेरकः- स घडादी चेव मती, गुरुः- न निसेहाओ तदणुरूवो || [विशेषाव० १८५१] त्ति । [सू० ६ ] एगे धम्मे । एगे अम् ।
[टी०] लोकालोकयोश्च विभागकारणं धर्मास्तिकायोऽतस्तत्स्वरूपमाह - एगे धम्मे, एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्वेऽपि द्रव्यार्थतया तस्यैकत्वात्, जीव- पुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्म्मः, स चास्तीनां 20 प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति ।
For Private & Personal Use Only
15
धर्मस्यापि विपक्षस्वरूपमाह - एगे अधम्मे, एको द्रव्यत एव, न धम्र्मोऽधर्म्मः अधर्म्मास्तिकाय इत्यर्थः, धर्मो हि जीव- पुद्गलानां गत्युपष्टम्भकारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति । ननु धर्मास्तिकाया-ऽधर्मास्तिकाययोः कथमस्तित्वावगमः ?, प्रमाणादिति ब्रूमः, तच्चेदम् - इह गतिः स्थितिश्च सकललोकप्रसिद्धं 25 ९. यद्यद्र्यु जे१ ॥ २. भवितव्यमिति सम्बन्धः ॥
www.jainelibrary.org