________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे क्रियाशब्दाभ्यां त्रयोदश क्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डा-ऽनर्थदण्डहिंसादण्डा-ऽकस्माद्दण्ड-दृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया १,
अदत्तादानप्रत्यया २, आध्यात्मिकी ३, मानप्रत्यया ४, मित्रद्वेषप्रत्यया ५, मायाप्रत्यया ६, 5 लोभप्रत्यया ७, ऐर्यापथिकी ८, अष्टविधा क्रियोक्ता, तदेकत्वं च करणमात्रसामान्यादिति। दण्ड-क्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान एव वक्ष्याम इति । अक्रियावत्त्वनिरासश्चात्मन एवम्- यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैर्भोक्तृत्वमप्यभ्युपगतमतो
भुजिक्रियानिर्वर्तनसामर्थ्य सति भोक्तृत्वमुपपद्यते, तदेव च क्रियावत्त्वं नामेति । अथ 10 प्रकृतिः करोति पुरुषस्तु भुङ्क्ते प्रतिबिम्बन्यायेनेति, तदयुक्तम्, कथञ्चित् सक्रियत्वमन्तरेण
प्रकृत्युपधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात् प्रतिबिम्बस्य। अथ प्रकृतिविकाररूपाया बुद्धेरेव सुखाद्यर्थप्रतिबिम्बनं नात्मनः, तर्हि नास्य भोगः, तदवस्थत्वात्तस्येति, अत्रापि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति ।
[सू० ५] एगे लोए । एगे अलोए । 15 [टी०] उक्तरूपस्यात्मन आधारस्वरूपनिरूपणायाह- एगे लोए त्ति,
एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लोक्यते दृश्यते केवलालोकेनेति लोकः धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम्धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ [ ] इति । अथवा लोको नामादिरष्टधा, आह चनामं ठवणा दविए खित्ते काले भवे य भावे य । पज्जवलोए य तहा अट्ठविहो लोयनिक्खेवो ॥ [आवश्यकनि० १०७०] त्ति ।
नाम-स्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकम्, काललोकः समयावलिकादिः, भवलोको नारकादयः स्वस्मिन् 25 स्वस्मिन् भवे वर्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः षडौदयिकादयो
भावाः, पर्यवलोकस्तु द्रव्याणां पर्यायमात्ररूप इति, एतेषां चैकत्वं केवलज्ञानालोकनीय१. 'बिंबस्येति । अथ जे१ ।।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org