________________
5
[सू० ३-४]
प्रथममध्ययनम् एकस्थानकम् । वाऽभ्युपगम्यते, अपि तु विशेषा एव प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमाना विशेषा व्यपदिश्यन्ते, त एव च विशेषा उपसर्जनीकृतातुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्त इति, आह च
निर्विशेषं गृहीताश्च भेदा: सामान्यमुच्यते । ततो विशेषात् सामान्यविशिष्टत्वं न युज्यते ॥ वैषम्यसमभावेन ज्ञायमाना इमे किल । प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥ [ ] इति ।
तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यं रूपं नास्ति, एकात्मव्यतिरेकेण शेषात्मनामनात्मत्वप्रसङ्गादिति, तुल्यं च रूपमुपयोगः, उपयोगलक्षणो जीव: [ ] इति वचनात्, तदेवमुपयोगरूपैकलक्षणत्वात् सर्वे एवात्मान एकरूपाः, 10 एवं चैकलक्षणत्वादेक आत्मेति । अथवा जन्म-मरण-सुख-दुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयम्, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात्, उक्तं चस्याद्वादाय नमस्तस्मै यं विना सकला: क्रियाः । लोकद्वितयभाविन्यो नैव साङ्गत्यमियति ॥ [ ] तथानयास्तव स्यात्पदसत्त्वलाञ्छिता रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ [बृहत्स्वयम्भूस्तोत्रे ] इति। [सू० ३] एगे दंडे । [सू० ४] एगा किरिया ।
[टी०] आत्मन एकत्वमुक्तन्यायतोऽभ्युपगच्छद्भिरपि कैश्चिनिष्क्रियत्वं तस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावत्त्वमभिधित्सुः क्रियायाः करणभूतं दण्डस्वरूपं प्रथमं 20 तावदभिधातुमाह- एगे दंडे, एकोऽविवक्षितविशेषत्वात् दण्ड्यते ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति । तेन चात्मा क्रियां करोतीति तामाह- एगा किरिया, एका अविवक्षितविशेषतया करणमात्रविवक्षणात् करणं क्रिया कायिक्यादिकेति । अथवा एगे दंडे एगा किरिय त्ति सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्ड- 25 . तुलना- तत्त्वार्थ० २।८ ॥ २. कारण जे२ ॥ ३. तश्चेति द्रव्यतो जे१ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org