________________
२०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
क्षणभङ्गुरम्' इति विज्ञानं भवेत्, तच्चायुक्तं समयनष्टस्येति, आह च
कह वा सव्वं खणियं विनायं ?, जइ मई सुयाओ त्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥
न उ पइसमयविणासे जेणेक्केक्कक्खरं पि य पयस्स । 5 संखाईयसमइयं संखेज्जाइं पयं ताई ।।
संखेज्जपयं वक्कं तदत्थगहणपरिणामओ होज्जा । सव्वखणभंगनाणं तदजुत्तं समयनट्ठस्स ॥ [विशेषाव० २४०१-२४०३] इति । तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषां युज्यमानत्वाद्, आह चतित्ती समो किलामो सारिक्ख-विवक्ख-पच्चयाईणि । अज्झयणं झाणं भावणा य का सव्वनासम्मि ? ॥ [विशेषाव० २४०४] त्ति । तत्र तृप्तिः ध्राणिः, श्रमः अध्वादिखेदः, क्लमो ग्लानिः, सादृश्यं साधर्म्यम्, । विपक्षो वैधर्म्यम्, प्रत्यय: अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु
स्थानान्तरादवसेयमिति । तदेवमात्मा स्थिति-भवन-भङ्गरूपः स्थिररूपापेक्षया नित्यो 15 नित्यत्वाच्चैकः, भवन-भङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च
जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणाम । ठिइ-विभव-भंगरूवं णिच्चाणिच्चाइ तोऽभिमयं ॥ [विशेषाव० २४१६] ति । एवं च- सुह-दुक्ख-बंध-मोक्खा उभयनयमयाणुवत्तिणो जुत्ता ।
____ एगयरपरिच्चाए सव्वव्ववहारवुच्छित्ति ॥ [विशेषाव० २४१७] त्ति । 20 अथवा एक आत्मा कथञ्चिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमनेक
वाऽस्ति, सामान्य-विशेषरूपत्वाद्वस्तुनः । अथ ब्रूयात्- विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि- सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ? न भिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्तुं शक्यम्,
खरविषाणस्यापि तथाप्रसङ्गात् । अथाभिन्नमिति पक्षः, तथा च सामान्यमानं वा 25 स्याद्विशेषमानं वेति, न ह्येकस्मिन् सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्ण
वस्तुव्यवस्था स्यादिति, अत्रोच्यते, न ह्यस्माभिः सामान्य-विशेषयोरेकान्तेन भेदोऽभेदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org