________________
[सू०७]
प्रथममध्ययनम् एकस्थानकम् ।
पश्चादात्मा, उत युगपत् कर्मा-ऽऽत्मानौ संप्रसूयेतामिति त्रयो विकल्पाः । तत्र न तावत् पूर्वमात्मसंभूतिः सम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद् । अथानादिरेव आत्मा, तथाप्यकारणत्वान्नास्य कर्मणा योग उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति। अथासावात्मा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया ?, बन्धाभावे च मुक्तव्यपदेशाभाव 5 एव, आकाशवदिति । नापि कर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः सङ्गच्छते, कर्तुरभावात्, न चाक्रियमाणस्य कर्मव्यपदेशोऽभिमतः, अकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति । युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपि न क्षमः, अकारणत्वादेव, न च युगपदुत्पत्तौ सत्यामयं कर्ता कर्मेदमिति व्यपदेशो युक्तरूपः, सव्येतरगोविषाणवदिति। अथादिरहितो जीवकर्मयोग इति पक्षः, ततश्चाऽनादित्वादेव नात्म-कर्मवियोगः स्यात्, 10 आत्मा-ऽऽकाशसंयोगवदिति । अत्रोच्यते, आदिमत्संयोगपक्षदोषा अनभ्युपगमादेव निरस्ताः, यच्चादिरहितजीव-कर्मयोगेऽभिधीयते 'अनादित्वान्नात्म-कर्मवियोगः' इति, तदयुक्तम्, अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः, काञ्चनोपलयोरिवेति, यदाह
जह वेह कंचणोवलसंजोगोऽणाइसंतइगओ वि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं ॥ [विशेषाव० १८१९] ति । तथा अनादेरपि सन्तानस्य विनाशो दृष्टो बीजाङ्कुरसन्तानवत्, आह चअन्नतरमणिव्वत्तियकज्जं बीयंकुराण जं विहयं । तत्थ हओ संताणो कुक्कुडियंडाइयाणं च ॥ [विशेषाव० १८१८] त्ति ।
अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह- एगे मोक्खे, मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च- कृत्स्नकर्मक्षयान्मोक्षः [तत्त्वार्थ० 20 १०।३], स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईषत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः । अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति । नन्वपर्यवसानो जीव-कर्मसंयोगोऽनादित्वाज्जीवा-ऽऽकाशसंयोगवदिति कथं मोक्षसम्भवः, कर्मवियोगरूपत्वादस्य ?, अत्रोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातु-काञ्चन- 25 संयोगो ह्यनादिः, स च सपर्यवसानो दृष्टः, क्रियाविशेषाद्, एवमयमपि जीव-कर्मयोगः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.