SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ २६ २६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सम्यग्दर्शन-ज्ञान-चारित्रैः सपर्यवसानो भविष्यति, जीव-कर्मवियोगश्च मोक्ष उच्यते इति । ननु नारकादिपर्यायस्वभावः संसारो नान्यः, तेभ्यश्च नारकत्वादिपर्यायेभ्यो भिन्नो नाम न कश्चिज्जीवः, नारकादय एव पर्याया जीवः, तदनन्तरत्वादिति संसाराभावे जीवाभाव 5 एव नारकादिपर्यायस्वरूपवदित्यसत्पदार्थो मोक्ष इति, आह च जं नारगादिभावो संसारो नारगाइभिन्नो य । को जीवो तं मनसि ? तन्नासे जीवनासो त्ति ॥ [विशेषाव० १९७८] अत्र प्रतिविधीयते - यदुक्तं 'नारकादिपर्यायसंसाराभावे सर्वथा जीवाभाव एवानर्थान्तरत्वान्नारकादिपर्यायस्वरूपवत्' इति, अयमनैकान्तिको हेतुः, हेम्नो 10 मुद्रिकायाश्चानान्तरत्वं सिद्धम्, न च मुद्रिकाकारविनाशे हेमविनाश इति, तद्वन्नारकादिपर्यायमात्रनाशे सर्वथा जीवनाशो न भविष्यतीति, आह च न हि नारगादिपज्जायमेत्तनासम्मि सव्वहा नासो । जीवद्दव्वस्स मओ मुद्दानासे ब्व हेमस्स ॥ [विशेषाव० १९७९] त्ति । अपि चकम्मकओ संसारो तन्नासे तस्स जुज्जए नासो । जीवत्तमकम्मकयं तन्नासे तस्स को नासो ? ॥ [विशेषाव० १९८०] त्ति । [सू० ८] एगे पुण्णे । एगे पावे । [टी०] मोक्षश्च पुण्य-पापक्षांद्भवतीति पुण्य-पापयोः स्वरूपं वाच्यम्, तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधर्म्यात् पुण्यं तावदाह- एगे पुण्णे, पुण शुभे [पा० 20 धा० १४२०] इति वचनात् पुणति शुभीकरोति पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यं शुभकर्म सद्वेद्यादि द्विचत्वारिंशद्विधम्, यथोक्तम् सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाउ । मणुयदुर्ग ७ देवदुगं ९ पंचेंदियजाति १० तणुपणगं १५ ॥ अंगोवंगतियं पि य १८ संघयणं वज्जरिसहनारायं १९ । 25 पढम चिय संठाणं २० वन्नाइचउक्क सुपसत्थं २४ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोयं २९ । १. भविष्यतीति जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy