________________
[सू० ८]
प्रथममध्ययनम् एकस्थानकम् । सुपसत्था विहयगई ३० तसाइदसगं च ४० णिम्माणं ४१ ॥ तित्थयरेणं सहिया बायाला पुण्णपगईओ ।। [ ] त्ति ।
एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धि-पापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति ।।
अथ कर्मैव न विद्यते प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः 5 पुण्यकर्म सत्तेति ?, असत्यमे तत्, यतोऽनुमानसिद्धं कर्म, तथाहिसुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्कुरस्येव बीजम्, यश्च हेतुरस्यास्तत् कर्म, तस्मादस्ति कर्मेति, स्यान्मति:- सुख-दुःखानुभूतेदृष्ट एव हेतुरिष्टा-ऽनिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्मपरिकल्पनया?, न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवम्, व्यभिचारात्, इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले 10 विशेषो दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्विशिष्टहेतुमानसौ, कार्यत्वात्, घटवत्, यश्च समानसाधनसमेतयोस्तत्फलविशेषहेतुस्तत् कर्म, तस्मादस्ति कर्मेति, आह च
जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व हेऊ य से कम्मं ॥ [विशेषाव० १६१३] ति । किञ्च, अन्यदेहपूर्वकमिदं बालशरीरम्, इन्द्रियादिमत्त्वात्, यदिहेन्द्रियादिमत् तदन्यदेहपूर्वकं दृष्टम्, यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमच्चेदं बालशरीरकं तस्मादन्यशरीरपूर्वकम्, यच्छरीरपूर्वकं चेदं बालशरीरं तत् कर्म, तस्मादस्ति कर्मेति । आह च
20 बालसरीरं देहतरपुव्वं इंदियाइमत्ताओ। जह बालदेहपुव्वो जुवदेहो पुव्वमिह कम्मं ॥ [विशेषाव० १६१४] ति ।
ननु कर्मसद्भावेऽपि पापमेवैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु पुण्यफलं सुखमुच्यते तत् पापस्यैव तरतमयोगादपकृष्टस्य फलम्, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतमयोगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् 25 १. बालकश पा० जे२ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org