________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रकृष्टोऽपकर्षस्तत्र या काचित् पापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वात्मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याहारसेवनादनारोग्यम्, तस्यैवापथ्यस्य किञ्चित् किञ्चिदपकर्षात् यावत् स्तोकापथ्याहारत्वमारोग्यकरम्,
सर्वाहारपरित्यागाच्च प्राणमोक्ष इति, आह च5 पावुक्करिसेऽधमया तरतमजोगाऽवकरिसओ सुभया ।
तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ ॥ विशेषाव० १९१०] त्ति ।
अत्रोच्यते, यदुक्तम्- ‘अत्यन्तापचितात् पापात् सुखप्रकर्षः' इति, तदयुक्तम्, यतो येयं सुखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनिता, प्रकर्षानुभूतित्वात्, दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते 10 तथेयमपि सुखप्रकर्षानुभूतिः प्रकर्षानुभूतिरिति स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति
प्रमाणफलमिति । _ पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाह- एगे पावे, पांसयति गुण्डयत्यात्मानं पोयति चात्मन आनन्दरसं शोषयति क्षपयतीति पापम्, तच्च ज्ञानावरणादि व्यशीतिभेदम,
यथाऽऽह15 नाणंतरायदसगं १० सण णव १९ मोहणीय छव्वीसं ४५ ।
अस्सायं ४६ निरयाउं ४७ नीयागोएण अडयाला ४८ ॥ निरयदुगं २ तिरियदुगं ४ जाइचउक्कं च ८ पंच संघयणा १३ । संठाणा वि य पंच उ १८ वन्नाइचउक्कमपसत्थं २२ ॥
उवघाय २३ कुविहयगई २४ थावरदसगेण होंति चोत्तीसं ३४ । 20 सव्वाओ मिलिआओ बासीती पावपगईओ ८२ ॥ [ ]
तदेवं व्यशीतिभेदमपि पुण्यानुबन्धि-पापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामान्यादेकमिति ।
ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म, न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव सिद्धेरिति, तथाहि- यत् परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्यम्, यत् 25 पुनस्तस्मादवकृष्टमवकृष्टतरमवकृष्टतमं च तत् पुण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्
परमप्रकर्षहानिः, परमापकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलम्- या काचित् १. जनिता त्वया जे१ ॥ २. "पै ओवै शोषणे''- पा० धा० ९२०-९२१ ॥ ३. परमाप्रकर्ष खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org