________________
[सू० ९]
प्रथममध्ययनम् एकस्थानकम्। शुभमात्रेत्यर्थः- दुःखप्रकर्ष इति तात्पर्यम्, तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावान्मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात् पुंसः परमारोग्यसुखम्, तस्यैव च किञ्चित् किञ्चित् पथ्याहारविवर्जनादपथ्याहारपरिवृद्धेरारोग्यसुखहानिः, सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षप्रभवा, प्रकर्षानुभूतित्वात्, सौख्यप्रकर्षानुभूति- 5 वत्, यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः प्रकर्षानुभूतिरिति स्वानुरूपपापकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति, आह चकम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूइओ । सोक्खप्पगरिसभूई जह पुण्णप्पगरिसप्पभवा ॥ [विशेषाव० १९३१] इति । 10 तदिति दुःखमिति । [सू० ९] एगे आसवे । एगे संवरे । [टी०] इदानीमनन्तरोक्तयोः पुण्य-पापकर्मणोर्बन्धकारणनिरूपणायाह- एगे आसवे, आस्रवन्ति प्रविशन्ति तेन काण्यात्मनीत्यासवः, कर्मबन्धहेतुरिति भावः, स चेन्द्रियकषाया-ऽव्रत-क्रिया-योगरूपः क्रमेण पञ्च-चतुः-पञ्च-पञ्चविंशति-त्रिभेदः, उक्तं च- 15 इंदिय ५ कसाय ४ अव्वय ५ किरिया २५ पण चउर पंच पणुवीसा । जोगा तिन्नेव भवे आसवभेया उ बायाला ॥ [ ] इति ।
तदेवमयं द्विचत्वारिंशद्विधः, अथवा द्विविधो द्रव्य-भावभेदात्, तत्र द्रव्यास्रवो यज्जलान्तर्गतनावादौ तथाविधच्छिद्रैर्जलप्रवेशनं भावास्रवस्तु यज्जीवनावीन्द्रियादिच्छिद्रतः कर्मजलसञ्चय इति । स चासवसामान्यादेक एवेति ।
20 अथास्रवप्रतिपक्षभूतसंवरस्वरूपमाह- एगे संवरे, संव्रियते कर्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः, आश्रवनिरोध इत्यर्थः, स च समिति-गुप्तिधा-ऽनुप्रेक्षा-परीषह-चारित्ररूप: क्रमेण पञ्च-त्रि-दश-द्वादश-द्वाविंशति-पञ्चभेदः, आह च
१. किंचित्पथ्याहारविवर्ज° ख० । किंचित्पथ्याहारवर्ज° जे१ ॥ २. आश्रव पा० जे२ । एवमग्रेऽपि ।
हस्तलिखितादर्शेषु क्वचित् आश्रव इति क्वचित् आस्रव इति पाठः उपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org