________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे समिई ५ गुत्ती ३ धम्मो १० अणुपेह १२ परीसहा २२ चरित्तं च ५ । सत्तावन्नं भेया पणतिगभेयाइ संवरणे ॥ [ ] त्ति ।
अथवाऽयं द्विधा- द्रव्यतो भावतश्चेति । तत्र द्रव्यतो जलमध्यगतनावादेरनवरतप्रविशज्जलानां छिद्राणां तथाविधद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्या5 माश्रवत्कर्मजलानामिन्द्रियादिच्छिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ।
[सू० १०] एगा वेयणा । एगा निज्जरा ।
[टी०] संवरविशेषे चायोग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह- एगा वेयणा, वेदनं वेदना स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य 10 कर्मणोऽनुभवनमिति भावः, सा च ज्ञानावरणीयादिकापेक्षया अष्टविधाऽपि, विपाकोदय-प्रदेशोदयापेक्षया वा द्विविधाऽपि, आभ्युपगमिकी शिरोलोचादिका
औपक्रमिकी रोगादिजनितेत्येवं वा द्विविधाऽपि वेदनासामान्यादेकैवेति । ___ अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति वेदनानन्तरं कर्मपरिशटनरूपां निर्जरां
निरूपयन्नाह- एगा निज्जरा, निर्जरणं निर्जरा, विशरणं परिशटनमित्यर्थः, सा 15 चाष्टविधकर्मापेक्षयाऽष्टविधाऽपि द्वादशविधतपोजन्यत्वेन द्वादशविधाऽपि अकामक्षुत्पिपासा-शीता-ऽऽतप-दंशमशक-मलसहन-ब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपि द्रव्यतो वस्त्रादेर्भावतः कर्मणामेवं द्विविधाऽपि वा निर्जरासामान्यादेकैवेति । ननु निर्जरा-मोक्षयोः कः प्रतिविशेषः ?, उच्यते, देशतः कर्मक्षयो
निर्जरा, सर्वतस्तु मोक्ष इति । 20 [सू० ११] एगे जीवे पाडिक्कएणं सरीरएणं ।
[टी०] इह च जीवो विशिष्टनिर्जराभाजनं प्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह- एगे जीवे इत्यादि, अथवा उक्ताः सामान्यतः प्रस्तुतशास्त्रव्युत्पादनीया जीवादयो नव पदार्थाः, साम्प्रतं जीवपदार्थं विशेषेण प्ररूपयन्नाह– एगे जीवे पाडिक्कएणं सरीरएणं, 25 एकः केवलो जीवितवान् जीवति जीविष्यति चेति जीव: प्राणधारणधर्मा आत्मेत्यर्थः.
१. "तश्च तत्र द्र पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org