SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [सू० १२-१३] प्रथममध्ययनम् एकस्थानकम् । एकं जीवं प्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत् प्रत्येकम्, तदेव प्रत्येककम्, दीर्घत्वादि प्राकृतत्वात्, तेन प्रत्येक केन, शीर्यत इति शरीरं देहः, तदेवानुकम्पितादिधर्मोपेतं शरीरकम् तेन लक्षितः तदाश्रित्य एको जीव इत्यर्थः, अथवा णंकारौ वाक्यालङ्कारार्थी, तत एको जीवः प्रत्येकके शरीरे वर्त्तत इति वाक्यार्थः स्यादिति, इह च पाडिक्खएणं ति क्वचित् पाठो दृश्यते, स च न व्याख्यातः, 5 अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काञ्चिदेव वाचनां व्याख्यास्याम इति । [सू० १२] एगा जीवाणं अपरिआइत्ता विगुव्वणा । [टी०] इह बन्ध-मोक्षादय आत्मधर्म्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् एगा जीवाणं इत्यादिना एगे चरित्ते इत्येतदन्तेन ग्रन्थेनाह । एगा 10 जीवाणं अपरियाइत्ता विगुव्वणा, एगा जीवाणं ति प्रतीतम्, अपरियाइत अपर्यादाय परितः समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान् पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् स्वस्मिन् उत्पत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्येकमेकत्वाद्भवधारणीयस्येति, सकलवैक्रियशरीर्यपेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनलक्षणा, 15 सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याऽप्यनेकापि स्यादिति पर्यवसितम् । अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसीयते, येनेह सूत्रे अपरियाइत्ता इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते ? इति चेत्, उच्यते, भगवतीवचनात्, तथाहि ३१ 1 देवे णं भंते ! महिड्डिए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एवं 20 विव्वित्त ?, गोयमा ! नो इणमट्ठे समट्ठे । देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभु [भगवती० ६।९ २ - ३ ]त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवति विवक्षितमिति। [सू० १३ ] एगे मणे । एगा वयी । एगे कायवाया । [ टी० ] एगे मणे त्ति मननं मनः औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूह - 25 साचिव्याज्जीवव्यापारः, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो मनोद्रव्यमात्रमेवेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy