SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ३२ ____ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तच्च सत्यादिभेदादनेकमपि संज्ञिनां वा असङ्ख्यातत्वादसङ्ख्यातभेदमप्येकम्, मननलक्षणत्वेन सर्वमनसामेकत्वादिति।। एगा वइ त्ति वचनं वाक्, औदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारः, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽप्येकैव, 5 सर्ववाचां वचनसामान्येऽन्तर्भावादिति ।। एगे कायवायामे त्ति चीयत इति काय: शरीरम्, तस्य व्यायामो व्यापारः कायव्यायामः, औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पनरौदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति । यच्चैकस्यैकदा मनःप्रभृतीनामेकत्वं तत् सूत्र एव 10 विशेषेण वक्ष्यति एगे मणे देवासुरे[सू०३१]त्यादिनेति सामान्याश्रयमेवेहैकत्वं व्याख्यातमिति । [सू० १४] एगा उप्पा । [सू० १५] एगा वियती। [सू० १६] एगा वियच्चा। [टी०] उप्प त्ति प्राकृतत्वादुत्पादः, स चैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति । 15 वियइ त्ति विगतिर्विगमः, सा चैकोत्पादवदिति । विकृतिर्विततिरित्यादि व्याख्यान्तरमप्युचितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति । वियच्च त्ति विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चा शरीरं विगतार्चा, प्राकृतत्वादिति, विवर्चा वा विशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा, सा चैका सामान्यादिति । 20 सू० १७] एगा गती । एगा आगती । [सू० १८] एगे चयणे । [सू० १९] एगे उववाए । [टी०] गइ त्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादौ जीवस्य गमनं गतिः, सा चैकदैकस्यैकैव ऋज्वादिका नरकगत्यादिका वा, पुद्गलस्य वा, स्थितिवैलक्षण्यमात्रतया वैकरूपा सर्वजीव-पुद्गलानामिति । 25 आगइ त्ति आगमनमागतिः नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy