SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [सू० २०-२७] प्रथममध्ययनम् एकस्थानकम् । चयणे त्ति च्युतिः च्यवनम्, वैमानिक - ज्योतिष्काणां मरणम्, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति । उववाए त्ति उपपतनमुपपातो देव - नारकाणां जन्म, स चैकश्च्यवनवदिति । [सू० २०] एगा तक्का । [सू० २१] एगा सन्ना । [सू० २२] एगा मन्ना । [सू० २३] एगा विन्नू । [टी०] तक्क त्ति तर्कणं तक विमर्शः, अवायात् पूर्वा इहाया उत्तरा प्रायः शिरःकण्डूयनादयः पुरुषधर्म्मा इह घटन्त इतिसम्प्रत्ययरूपा, ईहा वा, एकत्वं तु प्रागिवेति । सन्न त्ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः, आहार-भयाद्युपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति । ३३ मन्न त्ति प्राकृतत्वान्मननं मतिः, कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति यावत्, आलोचनमिति केचित्, अथवा मन्ना मन्नियव्वं, अभ्युपगम इत्यर्थः, सूत्रद्वयेऽपि सामान्यत एकत्वमिति । एगा विन्नु त्ति विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत्, लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः । Jain Education International For Private & Personal Use Only 5 10 [सू० २४] एगा वेयणा । [सू० २५] एगे छेयणे । [सू० २६ ] एगे भेयणे । [सू० २७] एगे मरणे अंतिमसारीरियाणं । [टी०] वेयण त्ति प्राग् वेदना सामान्यकर्मानुभवलक्षणोक्ता, इह तु पीडालक्षणैव, सा च सामान्यत एकैवेति । अस्या एव कारणविशेषनिरूपणायाह- छेयणे त्ति छेदनं शरीरस्यान्यस्य वा 20 खड्गादिनेति । भेयणे त्ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः, भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति । वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह - एगे मरणे इत्यादि, मृतिर्मरणम्, अन्ते भवमन्तिमं चरमम्, तच्च तच्छरीरं चेत्यन्तिमशरीरम्, तत्र भवा अन्तिमशारीरिका 15 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy