________________
३४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे उत्तरपदवृद्धेः, तद्वा तेषामस्तीति अन्तिमशरीरिकाः, दीर्घत्वं च प्राकृतशैल्या, तेषां चरमदेहानाम्, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति।। [सू० २८] एगे संसुद्धे अहाभूते पत्ते । एगदुक्खे जीवाणं एगभूते।
[टी०] अन्तिमशरीरश्च स्नातको भूत्वा म्रियते, अतस्तमाह- एगे संसुद्धे इत्यादि, 5 एकः संशुद्धः अशबलचरण: अकषायत्वात्, यथाभूतः तात्त्विकः । पात्रमिव पात्रमतिशयवद्ज्ञानादिगुणरत्नानाम्, प्राप्तो वा गुणप्रकर्षमिति गम्यते । एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः, एगहक्खे त्ति पाठान्तरे त्वेकधैवाऽऽख्या संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धः संशुद्धासंशुद्ध इत्यादिकोऽपि,
व्यपदेशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा 10 जीवो यस्य स तथेति । जीवानां प्राणिनामेकभूत: एक इव आत्मोपम इत्यर्थः,
एकान्तहितवृत्तित्वाद्, एकत्वं चास्य बहूनामपि समस्वभावत्वादिति । ___ अथवा पत्ते इत्यादि सूत्रान्तरम् उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरम्, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात्, किंभूतं तदित्याह- एकभूतमनन्यतया व्यवस्थितं प्राणिषु, न साङ्ख्यानामिव 15 बाह्यमिति ।
[सू० २९] एगा अहम्मपडिमा जं से आया परिकिलेसति । [सू० ३०] एगा धम्मपडिमा जं से आया पजवजाए । [टी०] दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह- एगा अहम्मेत्यादि। धारयति दुर्गतौ प्रपततो जीवान् धारयति सुगतौ वा तान् स्थापयतीति धर्मः, उक्तं च20 दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः ।।
धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ [ ]
स च श्रुत-चारित्रलक्षणः, तत्प्रतिपक्षस्त्वधर्मः, तद्विषया प्रतिमा प्रतिज्ञा अधर्मप्रधानशरीरं वा अधर्मप्रतिमा, सा चैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद्, अत एवाह- जं से इत्यादि, यत् यस्मात् से तस्याः स्वाम्यात्मा जीवो 25 अथवा से त्ति सोऽधर्मप्रतिमावानात्मा परिक्लिश्यते रागादिभिर्बाध्यते, संक्लिश्यत
१. वृद्धिः पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org