SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथममध्ययनम् एकस्थानकम्। ३५ [सू० ३१-३४] इत्यर्थः । जंसीति पाठान्तरं वा, ततश्च प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्लिश्यते सा एकैवेति । ___ एतद्विपर्ययमाह- एगा धम्मेत्यादि प्राग्वत्, नवरं पर्यवाः ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः, आहिताग्न्यादित्वाच्च जातशब्दस्योत्तरपदत्वमिति, अथवा पर्यवान् पर्यवेषु वा यातः प्राप्तः पर्यवयातः, 5 अथवा पर्यवः परिरक्षा परिज्ञानं वा, शेषं तथैवेति । [सू० ३१] एगे मणे देवा-ऽसुर-मणुयाणं तंसि तंसि समयंसि १॥ - [सू० ३२] एगा वती देवा-ऽसुर-मणुयाणं तंसि तंसि समयंसि २॥ [सू० ३३] एगे कायवायामे देवा-ऽसुर-मणुयाणं तंसि तंसि समयंसि ३। [सू० ३४] एगे उट्ठाण-कम्म-बल-वीरिय-पुरिसकार-परक्कमे देवा-ऽसुर- 10 मणुयाणं तंसि तंसि समयंसि ।। [टी०] धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति तत्स्वरूपमाह- एगे मणे इत्यादि सूत्रत्रयम्, तत्र मन इति मनोयोगः, तच्च यस्मिन् यस्मिन् समये विचार्यते तस्मिन् तस्मिन् समये कालविशेष एकमेव, वीप्सानिर्देशेन न क्वचनापि समये तद् व्यादिसङ्ख्यं भवतीत्याह । एकत्वं च तस्यैकोपयोगत्वात् जीवानाम् । स्यादेतत्- नैकोपयोगो जीवः, 15 युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवत्, अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत् स्वरूपेण भिन्नकालमपि समय-मनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च समयातिसुहुमयाओ मनसि जुगवं च भिन्नकालं पि। उप्पलदलसयवेहं व जह व तमलायचक्कं ति ॥ [विशेषाव० २४३३] यदि पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदा किमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह च अन्नविणिउत्तमन्नं विणिओगं लहइ जड़ मणो तेणं । हत्थिं पि ठियं पुरओ किमन्नचित्तो न लक्खेइ ? ॥ [विशेषाव० २४३६] त्ति । १. “वाहिताग्न्यादिषु ।२।२।३७। आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ।”- पा० सिद्धान्तकौमुदी ॥ २. व्यादि संभवती पा० जे२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy