________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ इह च बहु वक्तव्यमस्ति, तत् स्थानान्तरादवसेयमिति । अथवा सत्यासत्योभयस्वभावानुभयरूपाणां चतुर्णां मनोयोगानामन्यतर एव भवत्येकदा, व्यादीनां विरोधेनाऽसम्भवादिति, केषामित्याह- देवासुरमणुयाणं ति, तत्र दीव्यन्ति इति देवा: वैमानिकज्योतिष्कास्ते च, न सुरा असुराः भवनपति-व्यन्तरास्ते च, मनोर्जाता मनुजाः 5 मनुष्यास्ते च देवा-ऽसुर-मनुजाः, तेषाम् । तथा वागिति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्वकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति च- छहिं ठाणेहिं णत्थि जीवाणं इड्डी इ वा जाव परक्कमे इ वा, तंजहाजीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं
दो भासाओ भासित्तए [सू० ४७९] इति । 10 तथा कायव्यायामः काययोगः, स चैषामेकदा एक एव, संप्तानां काययोगानामेकदा
एकतरस्यैव भावात् । ननु यदाऽऽहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति ?, अत्रोच्यते, सतोऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वाद्, अथौदारिकमपि तदा व्याप्रियते
तर्हि मिश्रयोगता भविष्यति, केवलिसमुद्घाते सप्तम-षष्ठ-द्वितीयसमयेष्वौदारिकमिश्रवत्, 15 तथा चाहारकप्रयोक्ता न लभ्येत, एवं च सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक
एव कायव्यायाम इति । एवं कृतवैक्रियशरीरस्य चक्रवर्त्यादेरप्यौदारिकं निर्व्यापारमेव, व्यापारवच्चेत् उभयस्य व्यापारवत्त्वे केवलिसमुद्घातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति । तथा काययोगस्याप्यौदारिकतया वैक्रियतया च क्रमेण
व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् तदा को दोष इति । 20 एवं च काययोगैकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्य-वाग्द्रव्यसाचिव्यजात
जीवव्यापाररूपत्वात् मनोयोग-वाग्योगयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमवसेयमिति । अथवेदमेव वचनमत्र प्रमाणम्, आज्ञाग्राह्यत्वात् अस्य, यतः
आणागेज्झो अत्थो आणाए चेव सो कहेयव्वो ।
दिटुंता दिलृतिअ कहणविहिविराहणा इहरा ॥ [आव० नि० १६६९] इति । 25 दृष्टान्ताद्दार्टान्तिकोऽर्थ इत्यर्थः । .
ननु सामान्याश्रयैकत्वेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्याख्यानेनेति ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org