________________
[सू० ३५]
प्रथममध्ययनम् एकस्थानकम् । उच्यते, नैवम्, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गात्, देवादिग्रहण-समयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति । इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थम्, न तु तिर्यग्नारकाणां व्यवच्छेदार्थम् । ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्ति: 5 सम्भाव्यत एवेति तद्ग्रहणमपि न्याय्यमिति, सत्यम्, किन्तु देवादीनां विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तद्ग्रहणम्, तथा प्रधानग्रहण इतरग्रहणं भवतीति न्यायाददोषः, नारकादिभ्यश्च देवादीनां प्रधानत्वं प्रतीतमेवेति । एतेषां च मनःप्रभृतीना यथाप्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पा-ऽल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति ।
कायव्यायामस्यैव भेदानामेकतामाह- एगे उठाणेत्यादि, उत्थानं च चेष्टाविशेष: 10 कर्म च भ्रमणादिक्रिया बलं च शरीरसामर्थ्य वीर्यं च जीवप्रभवं पुरुषकारश्च अभिमानविशेषः पराक्रमश्च पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तरायक्षय-क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयः, वीर्यान्तरायक्षय-क्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षय-क्षयोपशममात्राया एकविधत्वादेक एव जघन्यादिरेतद्विशेषो 15 भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेषं प्राग्वदिति । [सू० ३५] एगे नाणे १। एगे दंसणे २। एगे चरित्ते ३॥ [टी०] पराक्रमादेश्च ज्ञानादिर्मोक्षमार्गोऽवाप्यते, यत आहअब्भुट्ठाणे विणये परक्कमे साहुसेवणाए य । सम्मइंसणलंभो विरयाविरईए विरईए ॥ [आव० नि० ८४८] इति । ___20
अतो ज्ञानादीनां निरूपणार्थमाह- एगे नाणे इत्यादि। अथवा धर्मप्रतिमा प्रागुदिता, सा च ज्ञानादिस्वभावेति ज्ञानादीनि निरूपयन्नाह- एगे नाणे इत्यादि सूत्रत्रयम् । ज्ञायन्ते परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानम्, ज्ञान-दर्शनावरणयोः क्षयः क्षयोपशमो वा। ज्ञातिर्वा ज्ञानम्, आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवण: सामान्यांशग्राहकश्च ज्ञानपञ्चका-ऽज्ञानत्रय- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org