________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहिलब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाज्जीवानामिति । ननु दर्शनस्य ज्ञानव्यपदेश्यत्वमयुक्तम्, विषयभेदाद्, उक्तं च- जं सामन्नग्गहणं दंसणमेयं विसेसियं नाणं [ ] ति, अत्रोच्यते, ईहा-ऽवग्रहौ हि 5 दर्शनम्, सामान्यग्राहकत्वाद्, अपाय-धारणे च ज्ञानम्, विशेषग्राहकत्वाद्, अथ
चोभयमपि ज्ञानग्रहणेन गृहीतमागमे आभिनिबोहियनाणे अट्ठावीसं हवंति पगडीउ [आव० नि० १६] त्ति वचनात्, तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति।
ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रे तत् किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति ?, 10 अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं विवक्षितम्, ज्ञानादित्रयस्य सम्यक्शब्दलाञ्छितत्वे
सति मोक्षमार्गत्वेन विवक्षितत्वात्, मोक्षमार्गभूतं चैतत्त्रयं श्रद्धानपर्यायेणैव दर्शनेन सहेति ।
दंसणे त्ति दृश्यन्ते श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं दर्शनमोहनीयस्य क्षयः क्षयोपशम उपशमो वा, दृष्टिर्वा दर्शनं दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप 15 आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसामान्यादेकम्, एकजीवस्य वैकदा
एकस्यैव भावादिति । नन्ववबोधसामान्याज्ज्ञान-सम्यक्त्वयोः कः प्रतिविशेषः ?, उच्यते, रुचिः सम्यक्त्वम्, रुचिकारणं तु ज्ञानम्, यथोक्तम्नाणमवाय-धिईओ दंसणमिटुं जहोग्गहेहाओ।
तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ [ ] ति । 20 चरित्ते त्ति चर्यते मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निर्वृताविति
चरित्रम्, अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूप: परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादितद्भेदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भावाद्वेति । एतेषां च
ज्ञानादीनामयमेव क्रमः, यतो नाज्ञातं श्रद्धीयते नाश्रद्धितं सम्यगनुष्ठीयत इति । 25 [सू० ३६] एगे समए । एगे पएसे । एगे परमाणू ।
[टी०] ज्ञानादीनि ह्युत्पत्ति-विगति-स्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह- एगे समए । समयः परमनिरुद्धः काल उत्पलपत्रशतव्यतिभेददृष्टान्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org