________________
३९
[सू० ३७]
प्रथममध्ययनम् एकस्थानकम्। ज्जरत्पट्टसाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धादवबोद्धव्यः, स चैक एव वर्तमानस्वरूपः, अतीता-ऽनागतयोर्विनष्टा-ऽनुत्पन्नत्वेनाभावात् । अथवा असावेकः स्वरूपेण निरंशत्वादिति । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह- एगे पएसे, एगे परमाणू । प्रकृष्टो निरंशो धर्मा-ऽधर्मा-ऽऽकाश-जीवानां देशः अवयवविशेषः प्रदेशः, स चैकः स्वरूपतः, सद्वितीयत्वादौ देशव्यपदेश्यत्वेन प्रदेशत्वाभावप्रसङ्गादिति। परमाणु 5 त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः व्यणुकादिस्कन्धानां कारणभूतः, आह चकारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।। एकरस-वर्ण-गन्धो द्विस्पर्श: कार्यलिङ्गश्च ॥ [ ] इति ।
स च स्वरूपतः एक एव, अन्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां 10 प्रत्येकमनन्तानामपि तुल्यरूपापेक्षयैकत्वमिति । (सू० ३७] एगा सिद्धी । एगे सिद्धे । एगे परिनिव्वाणे । एगे परिनिव्वुडे। [टी०] यथा परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीषत्प्राग्भाराभिधानपृथिवीस्कन्धं प्ररूपयन्नाह- एगा सिद्धी । सिद्ध्यन्ति कृतार्था 15 भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रम्, यत आह - इहं बोदी चइत्ताणं तत्थ गंतूण सिज्झइ [आव० नि० ९५८] त्ति, तथापि तत्प्रत्यासत्त्येषत्प्राग्भाराऽपि तथा व्यपदिश्यते, आह च- बारसहिँ जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ [आव० नि० ९५९] त्ति, यदि च लोकाग्रमेव सिद्धि: स्यात् तदा कथमेतदनन्तरमुक्तं निम्मलदगरयवण्णा तुसारगोखीर-हार-सरिवन्ने [आव० नि० ९६१] त्यादि तत्स्वरूपवर्णनं घटते ?, 20 लोकाग्रस्यामूर्त्तत्वादिति, तस्मादीषत्प्राग्भारा सिद्धिरिहोच्यते, सा चैका, द्रव्यार्थतया पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतया त्वनन्ता। अथवा कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च सामान्यत इति ।
सिद्धेरनन्तरं सिद्धिमन्तमाह- एगे सिद्धे, सिद्ध्यति स्म कृतकृत्योऽभवत् सेधति स्म वा अगच्छत् अपुनरावृत्त्या लोकाग्रमिति सिद्धः, सितं वा बद्धं कर्म ध्मातं दग्धं 25 १. बुंदी च पा० जे२ । बु च खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org