________________
४०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे यस्य स निरुक्ततः सिद्धः कर्मप्रपञ्चनिर्मुक्तः, स च एको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति । अथवा सिद्धानाम् अनन्तत्वेऽपि तत्सामान्यादेकत्वम् । अथवा कर्म-शिल्प-विद्या-मन्त्र-योगा-ऽऽगमा-ऽर्थ-यात्रा-बुद्धि-तपः-कर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्वं सिद्धशब्दाभिधेयत्वसाम्यादिति । कर्मक्षयसिद्धस्य च परि5 निर्वाणं धर्मो भवतीति तदाह- एगे परिनिव्वाणे, परि समन्तान्निर्वातिनिर्वाणं
सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणम्, तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तद्दर्शनायाह- एगे परिनिव्वुए, परिनिर्वृतः सर्वतः शारीर-मानसास्वास्थ्यविरहित
इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति ।। 10 [सू० ३८] एगे सद्दे । एगे रूवे । एगे गंधे । एगे रसे । एगे फासे।
एगे सुब्भिसद्दे। एगे दुब्भिसद्दे । एगे सुरूवे । एगे दुरूवे । एगे दीहे। एगे रहस्से । एगे वट्टे । एगे तंसे । एगे चउरंसे । एगे पिहुले। एगे परिमंडले। एगे किण्हे । एगे णीले । एगे लोहिते । एगे हालिद्दे । एगे सुक्किले। एगे
सुब्भिगंधे । एगे दुब्भिगंधे । एगे तित्ते । एगे कडुए । एगे कसाए। एगे 15 अंबिले । एगे महुरे । एगे कक्खडे जाव लुक्खे ।।
[टी०] तदेतावता ग्रन्थेनैते प्रायो जीवधा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात् पुद्गलानां तल्लक्षणाजीवधा एगे सद्दे इत्यादिना जाव लुक्खे इत्येतदन्तेन ग्रन्थेनैकतयैव दर्श्यन्ते, पुद्गलादीनां तु सत्ता केषाञ्चिदनुमानतोऽवसीयते
घटादिकार्योपलब्धेः, केषाञ्चित् सांव्यवहारिकप्रत्यक्षत इति । तत्र शब्दादिसूत्राणि 20 सुगमानि, नवरं शप्यते अभिधीयते अनेनेति शब्दो ध्वनिः श्रोत्रेन्द्रियविषयः, रूप्यते
अवलोक्यत इति रूपम् आकारश्चक्षुर्विषयः, घ्रायते सिद्ध्यते इति गन्धो घ्राणविषयः, रस्यते आस्वाद्यते इति रस: रसनेन्द्रियविषयः, स्पृश्यते छुप्यत इति स्पर्शः स्पर्शनकरणविषयः, शब्दादीनां चैकत्वं सामान्यतः सजातीय-विजातीयव्यावृत्तरूपापेक्षया वा भावनीयम् । शब्दभेदावाह- सुब्भिसद्दे त्ति, शुभशब्दो मनोज्ञ इत्यर्थः, एवं दुब्भि १. निरुक्तात् सिद्धः ख० पा० जे२ ॥ २. दृश्यतां पृ०२५८ । “शा-शपिभ्यां ददनौ” - पा० उणा०५४७।
“शा-शपि-मनि-कनिभ्यो दः ॥२३७||.... शपी आक्रोशे शब्दः श्रोत्रग्राह्योऽर्थः" - है। उणा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org