________________
[सू० ३९]
प्रथममध्ययनम् एकस्थानकम् । त्ति अशुभो मनोज्ञो यो न भवतीति, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम्, एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्दश शुक्लान्ता रूपभेदाः, तत्र सुरूपं मनोज्ञरूपमितरत्तु दूरूपमिति । दीर्घम् आयततरम्, ह्रस्वं तदितरद् । वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तं संस्थानं मोदकवत्, तच्च प्रतर-घनभेदात् द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्द्धा, एवं शेषाण्यपि । तंसे त्ति तिम्रोऽम्रयः कोटयो यस्मिंस्तत् 5 त्र्यनं त्रिकोणम्, चतुरंसे त्ति चतम्रोऽस्रयो यस्य तत्तथा, चतुष्कोणमित्यर्थः, तथा पिहुले त्ति पृथुलं विस्तीर्णम्, अन्यत्र पुनरिह स्थाने आयतमभिधीयते, तदेव चेह दीर्घ-हस्वपृथुलशब्दैविभज्योक्तम्, आयतधर्मत्वादेषाम्, तच्चायतं प्रतर-घन-श्रेणिभेदात् त्रिधा, पुनरेकैकं सम-विषमप्रदेशमिति षोढा, यच्चायतभेदयोरपि ह्रस्व-दीर्घयोरादावभिधानं तद् वृत्तादिषु संस्थानेष्वायतस्य प्रायोवृत्तिदर्शनार्थम्, तथाहि- दीर्घायतः स्तम्भो 10 वृत्तस्त्र्यम्रः चतुरस्रश्चेत्यादि भावनीयम्, विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति । परिमंडले त्ति परिमण्डलसंस्थानं वलयाकारं प्रतर-घनभेदाद् द्विविधमिति । रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः पीतः, कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः । गन्धो द्वेधा- सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टो दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति । रसः पञ्चधा, 15 तत्र श्लेष्मनाशकृत् तिक्तः १, वैशद्यच्छेदनकृत् कटुकः २, अन्नरुचिस्तम्भनकृत् कषाय: ३, आश्रवण-क्लेदनकृदम्लः ४, ह्लादन-बृंहणकृन्मधुरः ५, संसर्गजो लवण इति नोक्त इति । स्पर्शोऽष्टविधः, तत्र कर्कश: कठिनोऽनमनलक्षणः १, यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षण: २, गुरुरधोगमनहे तुः ३, लघु: प्रायस्तिर्यगूर्ध्वगमनहेतुः ४, शीतो वैशद्यकृत् स्तम्भनस्वभावः ५, उष्णो मार्दव- 20 पाककृत् ६, स्निग्धः संयोगे सति संयोगिनां बन्धकारणम् ७, रूक्षस्तथैवाबन्धकारणमिति ८ ।
[सू० ३९] एगे पाणातिवाए जाव एगे परिग्गहे । एगे कोधे जाव लोभे। एगे पेज्जे, एगे दोसे जाव एगे परपरिवाए । एगा अरतिरती । एगे मायामोसे। एगे मिच्छादंसणसल्ले ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org