________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
एगे पाणातिवायवेरमणे जाव परिग्गहवेरमणे । एगे कोधविवेगे जाव मिच्छादंसणसल्लविवेगे ।
[टी०] उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानाम् एगे पाणाइवाए इत्यादिना ग्रन्थेन दंसणसल्ले 5 इत्येतदन्तेन तामेवाह । तत्र प्राणाः उच्छ्वासादय:, तेषामतिपातनं प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तं च
पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः ।
प्राणादशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।। [ ] इति,
स च प्राणातिपातो द्रव्य- भावभेदात् द्विविधः, विनाश-परिताप- सङ्क्लेशभेदात् 10 त्रिविधो वा, आह च
४२
तप्पज्जायविणासो दुक्खुप्पाओ य संकिलेसो य ।
एस वहो जिणभणिओ वज्जेयव्वो पयत्तेणं ॥ [ श्रावकप्र० १९९] ति |
अथवा मनोवाक्कायैः करण-कारणा-ऽनुमतिभेदान्नवधा, पुनः स क्रोधादिभेदात् षट्त्रिंशद्विधो वेति १ । तथा मृषा मिथ्या वदनं वादो मृषावादः, स च द्रव्य-भावभेदात् 15 द्विधा, अभूतोद्भावनादिभिश्चतुर्धा वा, तथाहि - अभूतोद्भावनं यथा सर्वगत आत्मा, भूतनिह्नवो यथा नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति २ । तथा अदत्तस्य स्वामि- जीव- तीर्थकर - गुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ता - चित्त - मिश्रभेदस्य वस्तुनः आदानं ग्रहणमदत्तादानम्, चौर्यमित्यर्थः, तच्च विविधोपाधिवशादनेकविधमिति ३। तथा मिथुनस्य स्त्रीपुंसलक्षणस्य 20 कर्म्म मैथुनम् अब्रह्म, तत् मनोवाक्कायानां कृत-कारिता-ऽनुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा, विविधोपाधितो बहुविधतरं वेति ४ । तथा परिगृह्यते स्वीक्रियत इति परिग्रह; बाह्याभ्यन्तरभेदाद् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा,आभ्यन्तरस्तु मिथ्यात्वा ऽविरति-कषाय-प्रमादादिरनेकधा, परिग्रहणं
""
१. 'तत्पर्यायविनाशः मनुष्यादिजीवपर्यायविनाशः, दुःखोत्पादश्च व्यापाद्यमानस्य, चित्तसङ्क्लेशश्च क्लिष्टचित्तोत्पादश्चात्मनः, एष वधो व्यस्तः समस्तो वा ओघतो जिनभणितः तीर्थकरोक्तो वर्जयितव्यः प्रयत्नेन उपयोगसारेणाऽनुष्ठानेनेति" इति याकिनीमहत्तराधर्मसूनुश्रीहरिभद्रसूरिप्रणीतायां श्रावकप्रज्ञप्तिटीकायाम् ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org