SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रथममध्ययनम् एकस्थानकम्। ३ [सू० ४०] वा परिग्रहो मूछेत्यर्थः ५ । तथा क्रोध-मान-माया-लोभाः कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहुविधाः, तथा पेज्ज त्ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमाया-लोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति १०, तथा दोसो त्ति द्वेषणं द्वेषः, दूषणं वा दोषः, स चानभिव्यक्तक्रोध-मानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति 5 ११, जाव त्ति ‘कलहे अब्भक्खाणे पेसुन्ने' इत्यर्थः, तत्र कलहो राटी १२, अभ्याख्यानं प्रकटमसदोषारोपणम् १३, पैशुन्यं पिशुनकर्म प्रच्छन्नं सदसदोषाविर्भावनम् १४, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः १५, अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो रतिश्च तथाविधानन्दरूपा 'अरतिरति' इत्येकमेव विवक्षितम्, यतः क्वचन विषये या रतिस्तामेव विषयान्तरापेक्षया अरति व्यपदिशन्त्येवमरतिमेव 10 रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६, तथा मायामोस त्ति माया च निकृतिम॒षा च मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्वान्मायामोसं, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणम्, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा १७, मिथ्यादर्शनं विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनं च 15 पञ्चधा आभिग्रहिका-ऽनाभिग्रहिका-ऽऽभिनिवेशिका-ऽनाभोगिक-सांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति १८ । एतेषां च प्राणातिपातादीनाम् उक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमवगन्तव्यमिति । उक्तान्यष्टादश पापस्थानानि, इदानीं तद्विपक्षाणामेव एगे पाणाइवायवेरमणे इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा 20 विवेकस्त्याग इति । [सू० ४०] एगा ओसप्पिणी, एगा सुसमसुसमा जाव एगा दूसमदूसमा। एगा उस्सप्पिणी, एगा दुस्समदुस्समा जाव एगा सुसमसुसमा । [टी०] उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणाम् एगा ओसप्पिणीत्यादिना सुसमसुसमेत्येतदन्तेनैतदेवाह। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy