________________
४४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अथ काल एव कथमवसीयत इति चेत् ?, उच्यते, बकुल-चम्पकाऽशोकादिपुष्पप्रदानस्य नियमेन दर्शनान्नियामकश्च काल इति । तत्र ओसप्पिणि त्ति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्क-शरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः । सुष्ठ समा सुषमा, 5 अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरूपस्तस्या एव प्रथमारक इति, एकत्वं
चावसर्पिण्या: स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् दूसमदूसमेति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति, एवं च सर्वत्र यावदिति व्याख्येयम्,
अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि- ‘एगा सुसमा, एगा सुसमदुसमा, 10 एगा दुसमसुसमा, एगा दुसमे'ति । आसां स्वरूपं शब्दानुसारतो नेयम् । प्रमाणं
पुनराद्यानां तिसृणां समानां क्रमेण सागरोपमकोटीकोट्यश्चतुस्त्रिद्विसङ्ख्याः , चतुर्थ्यास्त्वेका द्विचत्वारिंशद्वर्षसहस्रोना, अन्त्ययोस्तु प्रत्येकं वर्षसहस्राण्येकविंशतिरिति । तथा उत्सर्पति वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी
अवसर्पिणीप्रमाणा, दुष्ठ समा दुःषमा दुःखरूपा अत्यन्तं दुःषमा दुःषमदुःषमा, 15 यावत्करणाद् ‘एगा दूसमा, एगा दुसमसुसमा, एगा सुसमदुसमा, एगा सुसमे'ति दृश्यम्, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपर्यासादिति ।
[सू० ४१] [१] एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, चउवीसादंडओ जाव एगा वेमाणियाणं वग्गणा ।
[२] एगा भवसिद्धीयाणं वग्गणा, एगा अभवसिद्धीयाणं वग्गणा । एगा 20 भवसिद्धीयाणं णेरतियाणं वग्गणा, एगा अभवसिद्धीयाणं णेरतियाणं वग्गणा,
एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा, एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा ।
[३] एगा सम्मद्दिट्ठीयाणं वग्गणा, एगा मिच्छदिट्ठीयाणं वग्गणा, एगा सम्ममिच्छदिट्ठीयाणं वग्गणा । एगा सम्मदिट्ठीयाणं णेरइयाणं वग्गणा, एगा 25 मिच्छदिट्ठीयाणं णेरइयाणं वग्गणा, एगा सम्ममिच्छदिट्ठियाणं णेरइयाणं वग्गणा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org