SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [सू० २] प्रथममध्ययनम् एकस्थानकम् । प्रदेश-गुण-पर्यायाधारता, अवयविद्रव्यतेति यावत् । तथा प्रकृष्टो देशः प्रदेशो निरवयवोंऽशः स चासावर्थश्चेति प्रदेशार्थः, तस्य भावः प्रदेशार्थता, गुणपर्यायाधारावयवलक्षणार्थतेति यावत् । नन्ववयविद्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्यमानत्वात्, खरविषाणवत्, तथाहि- अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद् ?, न तावदभिन्नम्, अभेदे हि अवयविद्रव्यवदवयवानामेकत्वं स्याद्, 5 अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति । भिन्नं चेत् तत् तेभ्यः, तदा किमवयविद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैति देशतो वेति ?, यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात्, कथमेकत्वं तस्य ?, अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तत् कथं वर्त्तते देशतः सर्वतो वेति ?, सर्वतश्चेत्तदेव दूषणम्, देशतश्चेत् तेष्वपि 10 देशेषु कथमित्यादिरनवस्था स्यादिति, अत्रोच्यते, यदुक्तम्- 'विकल्पद्वयेन तस्यायुज्यमानत्वा' दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवा एव हि तथाविधै कपरिणामतया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्रपरिणामापेक्षया अवयवा इति, अवयविद्रव्याभावे तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था न स्यात्, तथा च प्रतिनियतकार्यार्थिना 15 प्रतिनियतवस्तूपादानं न स्यात्, तथा च सर्वमसमञ्जसमापनीपद्येत। सन्निवेशविशेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यम्, केवलं स एव सन्निवेशविशेषोऽवयविद्रव्यमिति । यच्चोच्यते विरुद्धधर्माध्यासो भेदनिबन्धनमिति, तदपि न सूक्तम्, प्रत्यक्षसंवेदनस्य परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति । 20 किञ्च, विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैव प्रतिभासमानत्वाद्, अवयववनीलवद्वा । न चायमसिद्धो हेतुः, तथाप्रतिभासस्यानुभूयमानत्वात्, नाप्यनैकान्तिकत्वविरुद्धत्वे, सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद्, अन्यथा न किञ्चनापि वस्तु सिध्येदिति । - भवतु नामावयविद्रव्यम्, केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्य- 25 मानत्वादिति, तथाहि- न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमानग्राह्यः, अनुमानस्य लिङ्ग-लिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्ते रिति, आगमगम्योऽपि नासौ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy