________________
10
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे उक्तः सूत्रस्पर्श कनियुक्त्यनुगमः । तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेप-सूत्रस्पर्शकनियुक्त्यनुगम-नया उपदर्शिताः, आराधितं च सक्रम भाष्यकारवचनम्, तद्यथासुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य समगं तु वच्चंति ॥ [विशेषाव० १००१] त्ति । एतेषां चायं विषय उक्तो भाष्यकारेणहोइ कयत्थो वोत्तुं सपयच्छेयं सुअं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविनियोगं । सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ [विशेषाव० १००९-१०१०] त्ति । एवं प्रतिसूत्रं स्वयमनुसरणीयम्, वयं तु संक्षेपार्थं क्वचित् किञ्चिदेव भणिष्याम इति। [सू० २] एगे आया । [टी०] यदाख्यातं भगवता तदधुनोच्यते । तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानाऽनुष्ठानै विषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचार 15 तावदादावाह- एगे आया। एको न व्यादिरूप आत्मा जीवः, कथञ्चिदिति गम्यते,
तत्र अतति सततमवगच्छति अत सातत्यगमने [पा० धा० ३८] इति वचनाद् ‘अत'धातोर्गत्यर्थत्वाद् गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा जीवः, उपयोगलक्षणत्वादस्य सिद्ध-संसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्,
सततावबोधाभावे चाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे 20 चाकाशादीनामपि तथात्वप्रसङ्गात्, एवं च जीवानादित्वाभ्युपगमाभावप्रसङ्गवं च इति।
अथवा अतति सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा । नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि स्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवम्, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद् जीव एव आत्मा, नाकाशादिरिति । यद्वा संसार्यपेक्षया 25 नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति । तस्य चैकत्वं कथञ्चिदेव,
तथाहि- द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः, प्रदेशार्थतया त्वनेकत्वमसङ्ख्येयप्रदेशात्मकत्वात् तस्येति । तत्र द्रव्यं च तदर्थश्चेति द्रव्यार्थः, तस्य भावो द्रव्यार्थता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org