________________
[सू० १]
प्रथममध्ययनम् एकस्थानकम्। उक्तं हि
जहाऽऽहिअग्गी जलणं णमंसे, नाणाहुतीमंतपयाहिसित्तं । एवायरियं उवचिट्ठएज्जा, अणंतनाणोवगओऽवि संतो ॥ [दशवै० ९।१।११] त्ति ।। यद्वा आउसंतेणं ति आजुषमाणेन श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह- विधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु यथाकथञ्चित्, 5 यत आहनिद्दा-विगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्ति-बहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ॥ [आव० नि० ७०७,पञ्चव० १००६] इत्यादि ।
एवमुक्तः पदार्थः । पदविग्रहस्तु सामासिकपदविषयः, स चाऽऽख्यातमित्यादिषु दर्शित इति ।
10 इदानीं चालना-प्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु मे इत्यस्य मम मह्यं वेति व्याख्यानमुचितम्, षष्ठी-चतुर्योरेवैकवचनान्तस्यास्मत्पदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तास्मच्छब्दार्थे वर्त्तत इति न दोषः । अर्थतस्तु चालना- ननु वस्तु नित्यं वा स्यादनित्यं वा ?, नित्यं चेत्तर्हि नित्यस्याऽप्रच्युता-ऽनुत्पन्न-स्थिरैकस्वरूपत्वाद्यो भगवतः 15 सकाशे श्रोतृत्वस्वभावः स एव कथ शिष्योपदेशकत्वस्वभाव इति ?, किञ्च, शिष्योपदेशकत्वं तस्य पूर्वस्वभावत्यागे स्यादत्यागे वा ?, यदि त्यागे हन्त हतं वस्तुनो नित्यत्वम्, वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति । अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोर्युगपदसम्भवादिति । अथानित्यमिति पक्षः, तदपि न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, 20 यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति । अत्र समाधिनयमतेनेति नयद्वारमवतरति, तत्र नैगम-सङ्ग्रह-व्यहारर्जुसूत्र-शब्द-समभिरूढैवम्भूता नयाः, तत्र चाद्यास्त्रयो द्रव्यमेवार्थोऽस्तीतिवादितया द्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थतया नित्यं वस्तु पर्यायार्थतया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुड-नागरादिवदिति, एवमेव च 25 सकलव्यवहारप्रवृत्तिरिति, उक्तं च- सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च ।
एवं चेव य सुह-दुक्ख-बंध-मोक्खादिसब्भावो ॥ [विशेषाव० ५४४, ३४३५] त्ति । १. तुलना- बृहत्कल्पभा० ८०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org