________________
१८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे आगमानामन्योन्यं विसंवादादिति । अत्रोच्यते, केयमनुलपभ्यमानता?, किमेकपुरुषाश्रिता सकलपुरुषाश्रिता वा ?, योकपुरुषाश्रिता, न तयाऽऽत्माभावः सिध्यति, सत्यपि वस्तुनि तस्याः सम्भवात्, न हि कस्यचित् पुरुषविशेषस्य घटाद्यर्थग्राहकं प्रमाणं न
प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं 5 विनिवर्त्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो दृष्ट इत्यनैकान्तिकताऽनुपलम्भहेतोः । सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न
सर्वज्ञेन सर्वे पुरुषाः सर्वदा सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति । किञ्च, विद्यते
आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटवदिति, न चायमसिद्धो हेतुः, यतोऽ10 स्मदादिप्रत्यक्षेणाप्यात्मा तावद् गम्यत एव, आत्मा हि ज्ञानादनन्यः, आत्मधर्मत्वात्
ज्ञानस्य, तस्य च स्वसंविदितरूपत्वात्, स्वसंविदितत्वं च ज्ञानस्य नीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञाने स्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे आत्मा गुणी प्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, उक्तं च15 गुणपच्चक्खत्तणओ गुणी वि जीवो घडो व्व पच्चक्खो।
घडओ वि घेप्पति गुणी गुणमेत्तग्गहणओ जम्हा ॥ [विशेषाव० १५५८] तथाअन्नोऽणन्नो व्व गुणी होज्ज गुणेहिं जइ णाम सोऽणन्नो ।
णणु गुणमेत्तग्गहणे घेप्पइ जीवो गुणी सक्खं ॥ 20 अह अन्नो तो एवं गुणिणो न घडादयो वि पच्चक्खा ।
गुणमेत्तग्गहणाओ जीवम्मि कुतो वियारोऽयं ? ॥ [विशेषाव० १५५९-१५६०] ति ।
ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति। तथाऽनुमानगम्योऽप्यात्मा, तथाहि- विद्यमानकर्तृकमिदं शरीरम्, भोग्यत्वात्,
ओदनादिवत्, व्योमकुसुमं विपक्षः, स च कर्ता जीव इति । नन्वोदनकर्तृवन्मूर्त आत्मा 25 सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवम्, संसारिणो मूर्तत्वेनाप्यभ्युपगमाद्, आह च
जो कत्तादि स जीवो सज्झविरुद्धो त्ति ते मई हुज्जा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥ [विशेषाव० १५७०] त्ति । १. घडओ व्व जे१ ।। २. व इति विशेषावश्यकभाष्ये पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org