________________
[सू० १] प्रथममध्ययनम् एकस्थानकम्।
१३ अतिशयवान् किलोपादेयः, तद्वचनमपि तथेति, अथवा तेणं ति अनेनोपोद्घातनिर्यक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमिदमध्ययनम्, क्षेत्रतोऽपापायाम्, कालतो वैशाखशुद्धैकादश्यां पूर्वाह्ने, भावे क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, 5 न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यातं ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्तिताः, यतःसिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते ।। शास्त्रादौ तेन वक्तव्य: सम्बन्धः सप्रयोजनः ॥ [मी० श्लो० वा० १७] इति । 10
एवमित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यम्, सर्वज्ञवचनानुवादमात्रत्वादस्येति । अथवा एवमित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताशङ्कया श्रोतृणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्र मा भूदिति । आख्यातमित्यनेन तु नापौरुषेयवचनरूपमिदम्, तस्यासम्भवादित्याह, यत उक्तम्
वेयवयणं न माणं अपोरुसेयं ति तम्मयं जेण । इदमच्चंतविरुद्धं वयणं च अपोरुसेयं च ॥ जं वुच्चइ त्ति वयणं पुरिसाभावे उ नेयमेवं ति । ता तस्सेवाभावो नियमेण अपोरुसेयत्ते ॥ [पञ्चव० १२७८-१२७९] इति । अथवा आख्यातं भगवतेदम्, न कुड्यादिनिःसृतम्, यथा कैश्चिदभ्युपगम्यते- 20 तस्मिन् ध्यानसमापन्ने चिन्तारत्नवदास्थिते । निःसरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥ [तत्त्वसं० ३२४०] १. “स्यादेतत्- नैवासावुपदिशति किञ्चित्, सर्वदा निर्विकल्पसमाधिस्थितत्वात् । किन्तु तदाधिपत्येन
विचित्रधर्मदेशनाप्रतिभासा विज्ञप्तयो भव्यानां भवन्ति । यथोक्तम्- यस्यां रात्रौ तथागतोऽभिसम्बुद्धो यस्यां च परिनिर्वृतः अत्रान्तरे तथागतेन एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम्, तत् कस्य हेतो: ? सततसमाहितो हि तथागतः, अपि तु ये अक्षररुतदेशना वैनयिकास्ते तथागतस्य मुखादृष्णीषादर्णायाः शब्द निश्चरन्तं शृण्वन्तीत्यादि।
तत्राह- तस्मिन् ध्यानसमापन्न इत्यादि । चिन्तारत्नं चिन्तामणिः ॥३२४०॥.... भवतु नामैवं कल्पना, तथापि कुड्यादिनिर्गतासु देशनासु सर्वज्ञाधिपत्यप्रभवत्वं सन्दिग्धमेवेति न तत्र प्रमाणत्वेन प्रेक्षावतां विश्वासो युक्त इति दर्शयति- कुड्यादिनिःसृतानामित्यादि ॥३२४३॥” इति शान्तरक्षितविरचितस्य तत्त्वसंग्रहस्य कमलशीलविरचितायां पञ्जिकायाम् ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.