________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ऽजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं कथितम् आख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च श्रुतमित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तं चकिं एत्तो पावयरं ? सम्म अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए कट्ठयरागम्मि पाडेइ ॥ [ ] त्ति ।
मयेत्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मा-ऽनन्तर-परम्परभेदभिन्नागमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम इत्याह, आयुष्मन्नित्यनेन तु
कोमलवचोभिः शिष्यमनः प्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तं च10 धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं ।
पल्हायंतो य मणं सीसं चोएइ आयरिओ ॥ [उपदेशमाला १०४] त्ति ।
आयुष्मत्त्वाभिधानं चात्यन्तमाह्लादकम्, प्राणिनामायुषोऽत्यन्ताभीष्टत्वाद्, यत उच्यतेसव्वे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसिं
जीवियं पियं [आचाराङ्ग० सू०७८ ] ति, तथा15 तृणायापि न मन्यन्ते पुत्र-दारा-ऽर्थसम्पदः ।।
जीवितार्थे नरास्तेन तेषामायुरतिप्रियम् ॥ [ ] इति ।
अथवा आयुष्मन्नित्यनेन ग्रहण-धारणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थं सकलगुणाधारभूतत्वेनाऽशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत
उक्तम्20 वुढे वि दोणमेहे न कण्हभूमाउ लोट्टए उदयं ।
गहण-धरणासमत्थे इय देयमच्छित्तिकारिम्मि ॥ [विशेषाव० १४५८] विपर्यये तु दोष इति, आह च
आयरिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो ।
अन्नेसिं पि य हाणी पुट्ठा वि न दुद्धदा वंझा ॥ [विशेषाव० १४५७] इति । 25 तथा तेनेत्यनेन त्वाप्तत्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह,
वक्तृगुणापेक्षत्वाद्वचनप्रामाण्यस्येति । भगवतेत्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org