________________
[सू० १]
प्रथममध्ययनम् एकस्थानकम् ।
जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं ।
जत्थ वि य ण जाणेज्जा चउक्कयं निक्खिवे तत्थ || [आचा०नि० ४, अनुयोग०सू० ८ ]त्ति ।
११
तत्र नामश्रुतं स्थापनाश्रुतं च प्रतीतम्, द्रव्यश्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतोपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः । तथा आउसं ति आयुः जीवितम्, तन्नामादिभेदतो दशधा, तद्यथा- 5 नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तब्भवे य ६ भोगे य ७ । संजम ८ जस ९ कित्ती १० जीवियं च तं भण्णती दसहा ॥
[ आव० नि० १०५६, विशेषाव० ३५१० ] [ तत्र नाम - स्थापने क्षुण्णे ।] दविए त्ति द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाज्जीवितं द्रव्यजीवितम् । ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमात्रं सामान्यजीवितं 10 भवति । नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि । भवेय त्ति तस्यैव पूर्वस्य भवस्य समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितम्, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति । भोगजीवितं चक्रवर्त्यादीनाम् । संयमजीवितं साधूनाम् । यशोजीवितं कीर्त्तिजीवितं च यथा महावीरस्येति । जीवितं चायुरेवेति, इह च संयमायुषा यशः - कीर्त्यायुषा चाधिकार इति । एवं शेषपदानां यथासम्भवं निक्षेपो 15 वाच्य इति ।
1
उक्तः सूत्रालापकनिष्पन्ननिक्षेपः । पदार्थः पुनरेवम् - इह किल सुधर्म्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार - श्रुतम् आकर्णितं मे मया, आउसं ति आयुः जीवितम्, तत् संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते यस्यासावायुष्मांस्तस्यामन्त्रणं हे आयुष्मन् ! शिष्य ! तेणं ति यः सन्निहित व्यवहित - 20 सूक्ष्म-बादर-बाह्या-ऽऽध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थ करनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याद्युपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इव घनघातिकर्म्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपदपद्मो मध्यमाभिधानपुरीप्रथम- 25 प्रवर्त्तितप्रवचनो जिनो महावीरस्तेन भगवता अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन एवमित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण आख्यातमिति, आ मर्यादया जीवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org