________________
१०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे इति । स्थानस्य तु निक्षेप उक्त एव, तत्र च गणनास्थानेनेहाधिकारः । ततः एकलक्षणं स्थानं संख्याभेद एकस्थानम्, तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमप्येकस्थानमिति।
उक्तावोघनिष्पन्न-नामनिष्पन्ननिक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तत्स्वरूपं चेदम्- सूत्रालापकानां सूत्रपदानां श्रुतं मे आयुष्मन्नित्यादीनां निक्षेपो 5 नामादिन्यासः, स च अवसरप्राप्तोऽपि नोच्यते, सति सूत्रे तस्य संभवात्, सूत्रं च
सूत्रानुगमे, स चानुगमभेद एवेत्यनुगम एव तावदुपवर्ण्यते। द्विविधोऽनुगमो नियुक्त्यनुगमः सूत्रानुगमश्च, तत्र आद्यो निक्षेपनिर्युक्त्युपोद्घातनियुक्ति -सूत्रस्पर्शकनिर्युक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगमः स्थानाङ्गाध्ययनाद्येकशब्दानां
निक्षेपप्रतिपादनादनुगत एवेति, उपोद्घातनिर्युक्त्यनुगमस्तु उद्देसे निद्देसे य निग्गमे [आव० नि० 10 १४०-१४१, विशेषाव० १४८४-१४८५] इत्यादिगाथाद्वयावसे य इति ।
सूत्रस्पर्शकनियुक्त्यनुगमस्तु संहितादौ षड्विधे व्याख्यालक्षणे पदार्थ-पदविग्रह-चालनाप्रत्यवस्थानलक्षणव्याख्यानभेदचतुष्ट यस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यतः सूत्रानुगम एवोच्यते, तत्र च अल्पग्रन्थ
महार्थादिसूत्रलक्षणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारणीयम्, तच्चेदम्15 [सू० १] सुयं मे आउसं ! तेणं भगवता एवमक्खायं ।
[टी०] सुयं मे इत्यादि। अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकार:सुत्तं १ पयं २ पयत्थो ३ संभवतो विग्गहो ४ वियारो य ५ चालनेत्यर्थः । दूसियसिद्धी ६ नयमयविसेसओ नेयमणुसुत्तं ॥ [विशेषाव० १००२]
तत्र सूत्रमिति संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वादिति, आह च20 होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो [विशेषाव० १००९] त्ति । ।
सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदादयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि- श्रुतं मया आयुष्मन्! तेन भगवता एवमाख्यातमिति, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था१. “उद्देसे निद्देसे य निग्गमे खित्त काल पुरिसे य । कारण पच्चय लक्खण नए समोयारणाऽणुमए ॥१४०।।
किं कइविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं भवागरिस फासण निरुत्ती ॥१४१॥” इति सम्पूर्ण गाथाद्वयम् आवश्यकनियुक्तौ ॥ २. 'द्वयादवसेय जेसं० १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org