SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [सू० १] प्रथममध्ययनम् एकस्थानकम् । तत्रौघ: सामान्यमध्ययनादि नाम, उक्तं चओहो जं सामन्नं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं । नामादि चउब्भेयं वण्णेऊणं सुयाणुसारेणं । एगट्ठाणं जोज्जं चउसुं पि कमेण भावेसु ॥ [विशेषाव० ९५८-९५९] तत्राध्यात्म मनः, तत्र शुभे अयनं गमनम् अर्थादात्मनो भवति यस्मात्, अध्यात्मशब्दवाच्यस्य वा मनसः शुभस्य आनयनमात्मनि यतो भवति, बोधादीनां वाऽधिकमयनं यतो भवति तदज्झयणं ति प्राकृतशैल्या भवतीति, आह च - जेण सुहज्झप्पयणं अज्झप्पाणयणमहियमयणं वा। बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥ [विशेषाव० ९६०] ति । 10 अधीयते वा पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा यद्दीयमानं न क्षीयते स्म तदक्षीणम्, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति, आह च अज्झीणं दिज्जतं अव्वोच्छित्तिनयतो अलोगो व्व । आओ नाणाईणं झवणा पावाण खवणं ति ॥ [विशेषाव० ९६१] नामनिष्पन्ने तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्नामं १ ठवणा २ दविए ३ माउयपय ४ संगहेक्कए चेव ५ । पज्जव ६ भावे य ७ तहा सत्तेते एक्कगा होंति ॥ [दशवै० नि० ८, २१८] तत्र नामैको यस्यैक इति नाम । स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः । द्रव्यैक: 20 सचित्तादिस्त्रिधा । मातृकापदैकस्तु 'उप्पन्ने इ वा विगए इ वा धुवे इ वा' इत्येषां मातृकावत् सकलवाङ्मयमूलतया अवस्थितानामन्यतरद्विवक्षितम्, अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः । संग्रहैको येनैकेनापि ध्वनिना बहवः सगृह्यन्ते, यथा जातिप्राधान्येन व्रीहिरिति । पर्यायैकः शिवकादिरेकः पर्यायः । भावैक औदयिकादिभावानामन्यतमो भाव इति । इह भावैकेन अधिकारो यतो 25 गणनालक्षणस्थानविषयोऽयमेकः, गणना च सङ्ख्या, सङ्ख्या च गुणः, गुणश्च भाव १. उत्तरा० नि० १४१, ३७८ ॥ २. 'स्तैकाङ्गः जे१ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy