________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे गुणप्रमाणं तु द्विधा- जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्नपि ज्ञान-दर्शन-चारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षा-ऽनुमानोपमाना-ऽऽगमात्मके प्रकृताध्ययनस्या
ऽऽप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिक-लोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे * सूत्रार्थोभयात्मनि, तथा चाह
जीवाणण्णत्तणओ जीवगुणे बोहभावओ णाणे । लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ ॥ [विशेषाव०९४७]
तत्राप्यात्मा-ऽनन्तर-परम्परागमभेदतस्त्रिविधेऽर्थतस्तीर्थकर-गणधर-तदन्तेवासिनः 10 सूत्रतस्तु गणधर-तच्छिष्य-तत्प्रशिष्यानपेक्ष्य यथाक्रममात्मा-ऽनन्तर-परम्परा
गमेष्ववतारः। सङ्ख्याप्रमाणमन्यत्र प्रपञ्चितं तत एवावधारणीयम्, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुत-दृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिकश्रुतपरिमाणसङ्ख्यायाम्, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सङ्ख्येयाक्षर-पदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्त15 परिमाणात्मिकायाम्, अनन्तगम-पर्यायत्वादागमस्य, तथा चाह- अणंता गमा अणंता
पज्जवा [समवायाङ्गे सू०१३७] इत्यादि । तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तम्
परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेण ।
ता सव्वज्झयणाई ससमयवत्तव्वनिययाइं ॥ [विशेषाव० ९५३] ति । 20 तथा अर्थाधिकारो वक्तव्यताविशेष एव, स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, स चानुपूर्व्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि
अहुणा य समोयारो जेण समोयारियं पइद्दारं ।
एगट्ठाणमणुगओ सो लाघवओ ण पुण वच्चो ।। [विशेषाव० ९५६] 25 निक्षेपस्त्रिधा ओघ-नाम-सूत्रालापकनिष्पन्नभेदात्, आह च
भण्णइ घेप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेयव्वं तओऽवस्सं ॥ [विशेषाव० ९५७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org